________________
परस्परेणाभिरूढः समभिरूढः शब्दभेदेऽप्यर्थभेदो नास्ति । इन्द्रः शक्रः
पुरंदरः इत्यादयः समभिरूढः ।
एवं क्रियाप्रधानत्वेन भूयत इति एवम्भूतः ।
शुद्धाशुद्धनिश्चय द्रव्यार्थिकस्य भेदौ । अभेदानुपचरिततया वस्तु निश्चीयत इति निश्चयः ।
भेदोपचारतया वस्तु व्यवह्रियत इति व्यवहारः ।
गुणगुणिनोः संज्ञादिभेदात् भेदकः सद्भूतव्यवहारः ।
अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र समारोपणमसद्भूतव्यवहारः । अद्भू
व्यवहार एव उपचारः ।
उपचारादप्युपचारो यः करोति स उपचरितासद्भूतव्यवहारः ।
गुणगुणिनोः, पर्यायपर्यायिनोः स्वभावस्वभाविनोः कारक- कारकिनोः भेदः सद्भूतव्यवहारस्यार्थः ।
द्रव्ये द्रव्योपचारः (१) गुंणे गुणोपचारः (२) पर्याये पर्यायोपचारः, (३) द्रव्ये गुणोपचारः, (४) द्रव्ये पर्यायोपचारः, (५) गुणे द्रव्योपचार:, (६) गुणे पर्यायोपचारः, (७) पर्याये द्रव्योपचारः, (८) पर्याये गुणोपचारः (९) इति नवविधः असद्भूतव्यवहारस्यार्थः द्रष्टव्यः ।
I
उपचारः पृथङ्नयो नास्ति इति न पृथक् कृतः । मुख्याभावे सति • प्रयोजननिमित्ते चोपचारः प्रवर्तते । सोऽपि सम्बन्धाविनाभावः, संश्लेषः सम्बन्धः, परिणामपरिणामिसम्बन्धः, श्रद्धा श्रद्धेय सम्बन्धः, ज्ञानज्ञेय सम्बन्धः, चारित्रचर्यासम्बन्धश्चेत्यादि ।
सत्यार्थः, असत्यार्थः, सत्यासत्यार्थश्चेत्युपचरितासद्भूतव्यवहारः ।
नयस्यार्थः पुनरपि । अध्यात्मभाषया नया उच्यन्ते । (तत्र) तावन्मूलनयो
(नयामृतम्
१३५