SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ द्वेधा-निश्चयो व्यवहारश्च । तत्र निश्चयोऽभेदविषयः व्यवहारो भेदविषयः । तत्र निश्चयो द्विविधः शुद्धनिश्चयोऽशुद्धनिश्चयश्च । तत्र निरूपाधिकगुणगुण्यभेदविषयः शुद्धनिश्चयः, यथा केवलज्ञानादयो जीवा इति । सोपाधिकगुणगुणिनः अभेदविषयोऽशुद्धनिश्चयः, यथा मतिज्ञानादयो जीवा इति ।। व्यवहारोऽपि द्विविधः- सद्भूतव्यवहारोऽसद्भूतव्यवहारश्च । तत्रैकवस्तुविषयः सद्भूतव्यवहारः । भिन्नवस्तुविषयोऽसद्भूतव्यवहारः । तत्र सद्भुतव्यवहारो द्विविधः । उपचरितानुपचरितभेदात् । तत्र सोपाधिकगुणगुणिभेदविषयः उपचरितसद्भूतव्यवहारः । यथा जीवस्य मतिज्ञानादयो गुणाः । निरुपाधिगुणगुणिभेदविषयः अनुपचरितसद्भूतव्यवहारो यथा जीवस्य केवलज्ञानादयो गुणाः । असद्भूतव्यवहारो द्विविधः उपचरितानुपचरितभेदात् । तत्र संश्लेषरहितवस्तुसम्बन्ध- . विषयः उपचरितासद्भूतव्यवहारो, यथा देवदत्तस्य धनमिति । संश्लेषसहितवस्तुसम्बन्धविषय उपचरितासद्भूतव्यवहारः, यथा जीवस्य शरीरमिति भावार्थः ।। : ॥ इति सुखबोधार्थमालापपद्धतिर्देवसेनपण्डितविरचिता परिसमाप्ता ।। ।। मिति चैत्र सुदि ७ शुक्रवार । संवत १९७१ लिखितं साध्वी ऋद्धिकुमारी गच्छनागोरी लोंकासवाई जयपुरामध्ये ।। - ३२५HAST STATS AGOनाजनक
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy