SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयनिक्षेपनं निक्षेपः । स नामस्थापनादिभेदेन चतुर्विधः ।। निक्षेपस्य व्युत्पत्तिः ।। . १. द्रव्यमेवार्थः प्रयोजनमस्येति द्रव्यार्थिकः । २. शुद्धद्रव्यमेवार्थः प्रयोजनमस्येति शुद्धद्रव्यार्थिकः ।.. ३. अशुद्धेद्रव्यमेवार्थः प्रयोजनमस्येति अशुद्धद्रव्यार्थिकः । ४. सामान्यगुणादयोऽन्वयरूपेण द्रव्यं द्रव्यमिति व्यवस्थापयतीति अन्वय द्रव्यार्थिकः । ५. स्वद्रव्यादिग्रहणमर्थः प्रयोजनमस्येति स्वद्रव्यादिग्राहकः । ... ६. परमद्रव्यादिग्रहणमर्थः प्रयोजनमस्येति परमद्रव्यादिग्राहकः । ७. परमभावग्रहणमर्थः प्रयोजनमस्येति परमभावग्राहकः ।।.. . द्रव्यार्थिकस्य व्युत्पत्तिः ।। . . .... पर्यायोऽर्थः प्रयोजनमस्येति पर्यायाथिकः । अनादिनित्यपर्याय एव अर्थः प्रयोजनमस्येति अनादिनित्यपर्यायार्थिकः । सादिनित्यपर्याय एवार्थः प्रयोजनमस्येति सादिनित्यपर्यायार्थिकः । शुद्धपर्याय एवार्थः प्रयोजनमस्येति शुद्धपर्यायार्थिकः । अशुद्धपर्याय एवार्थः प्रयोजनमस्येति अशुद्धपर्यायार्थिकः ।। पर्यायार्थिकस्य व्युत्पत्तिः ।। नैकं गच्छतीति निगमः । निगमो विकल्पः । तत्र भवो नैगमः । अभेदरूपतया वस्तून् सङ्ग्रहातीति सङ्ग्रहः । सङ्ग्रहेण गृहीतार्थस्य भेदरूपतया वस्तु व्यवह्रियते इति व्यवहारः । ऋजु प्राञ्जलं सूत्रयतीति ऋजुसूत्रः । शब्दात् व्याकरणात् प्रकृतिप्रत्ययद्वारेण सिद्ध (शब्दः) शब्दनयः ।। - - SCIENTISTANDARDAMODARASADकककककट TUB
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy