________________
६२
प्रतिक्रमण विधि संग्रह नेमिवन्दना, अष्टापद-नंदीश्वरादि बहुतीर्थनमस्काररूपां ‘चत्तारि अट्ठदसेत्यादि गाथां पठति । “सुप्रदेवयाए करेमि काउस्सग्गं, अन्नत्थे" त्यादि पठित्वा श्रुतदेवता कायोत्सर्ग कुर्यात् तत्र 'च' नमस्कारं चिन्तयति, पारयित्वा च तस्या स्तुतिं पठति एवं च क्षेत्र देवता पि स्मृतिमर्हति, यस्याः क्षेत्र स्थितिविधीयते ततस्तस्याः कायोत्सर्गानन्तरं स्तुति भणित्वा पंचमंगलभणनपूर्व संडासक, प्रमृज्यो पविशति X मुखवस्त्रप्रतिलेखनं ४ वन्दके दत्त्वाः इच्छामो अणुसठिमिति भणित्वा जानुभ्यां स्थित्वा कृताञ्जलिर्नमोऽर्हत्सिद्देति पूर्वकं .. स्तुतित्रयं पठति X श्रीगुरुभिरेकस्यां स्तुतौ पाक्षिकादि प्रतिक्रमणे तु . श्रीगुरुपर्वणों विशेषबहुमानसूचनार्थं तिसृष्वपि स्तुतिषु भणितासु सर्वे साधवः श्राद्धाश्च युगपत् पठन्ति X साध्वीश्राविकाश्च ‘नमोऽहत् सिद्धे' त्यादि न पठन्ति नमोऽस्तु वर्धमानायेत्यादि स्थाने संसारदावानलेत्यादि रूपं स्तुतित्रयं च पठति । रात्रिक प्रतिक्रमणे तु "विशाललोचनदलमित्यस्य स्थाने च । x श्री · गुरुकथनावसरे प्रतिस्तुतिप्रांते "नमोखमासमणाणं' इतिगुरुनमस्कारः । साधुश्राद्धादिभिर्भण्यते । Xस्तुतित्रयपाठानन्तरं शक्रस्तव पाठः । तत्र उदार स्वरेणैकः श्रीजिनस्तवं कथयति, अपरे च सर्वेसावधानमनसः कृतांजलयः शृण्वन्ति । स्तवभणनानंतरं “वरकनकेत्यादि" पठित्वा चतुभिः क्षमाश्रमणेः श्रीगुर्वादीन् वन्दते । अत्र च श्री देव गुरुवंदनं "नमोऽहंतु सिद्धाचार्यइत्यादेरारभ्य चतुःक्षमाश्रमणस्य प्रांतं यावत् ज्ञेयं । श्राद्धस्य तु अढ्ढाइज्जेसु इत्यादि भणनावधिज्ञयं देवसिक प्रायश्चित्तविशुद्ध्यर्थं कायोत्सर्ग कुरुते x अयं च कायोत्सर्गः सामाचारीवशेन कैश्चित् प्रतिक्रमणस्यान्ते, कैश्चिदादौक्रियते, पारयित्वा चतुर्विंशतिस्तवं च मंगलार्थं पठित्वा क्षमाश्रमणद्वयपूर्वमंडल्यामुपविश्य सावधानमनसा स्वाध्यायं कुरुते । मूलविधिना