________________
४८]
मन्त्रकल्प संग्रह
पूताः स्मरन्ति पुनरागमनाय यस्य,
संदर्शनाय गणिनोऽस्य गुणाकरस्य ||४|| ७ उपदेश प्रभाव चरितम् --
येनोपदेशवचनैर्विविधैस्तपोभि,
रुद्बोधितानि मुनिगेहि कदम्बकानि ।
आजीवितान्तमधि जाग्रति धर्मकृत्ये
वाराधयन्ति किल सिद्धिमपि क्रमेण ||५|| ८ वासक्षेप प्रभावचरितम्
यत्त्पाणिवासवशजातविशुद्धभावा,
दावानलाभभववासमपास्य मर्त्याः
उद्भासयन्ति मुनिमार्गमपास्तमोहूं,
निर्वापयन्ति भव ताप निबन्धनानि ॥ ६ ॥ शास्त्रसंशोधनचरितम् -
येन प्रमादरहितेन परोपकृत्ये,
संमाजितानि कविबन्ध सुमौक्तिकानि ।
कोश स्थितेषु भजतेऽक्षयभावमेषः
कण्ठस्थितेषु खलु तेषु विराजतेऽज्ञः ||७|| १० प्रतिष्ठा प्रभावचरितम् - चारूप- पाञ्चसर-भोगिनि मातरादि,
तोर्थेषु येन विहितानिपप्रतिष्ठाः,
जाता जयाय जगतो विजयाय संघे,
सेयं प्रभाबकणिका ग ुरुगौरवस्य ||८|| ११ सूरिमन्त्र जाप चरितम्श्री गौतमादि गणिवृन्द विचारपूत,
भूतादि भाव भयभङ्गकरं कलाढ्यम् ।
त्रिर्वारमस्त वृजिनोऽथ जिनोपदिष्टं,
मन्त्र जाप स सुधीः प्रबल प्रतापम् ॥६॥