SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३६] मन्त्रकरूप संग्रह स श्र ेयांसः श्र ेयसां यः सुखानि, सोयान्वः संविधत्तां सुखानि ॥२॥ प्रत्यादर्शे श्रेयसो दैवतस्य, बद्ध चित्तः येन पापं न तस्य । प्रत्याघातं संविधत्त नरस्य, यस्मात् श्रेयः शालिनी भक्तिरस्य || ३ || ( इति श्र यांस जिनचैत्य वन्दनम् ) श्री वासुपूज्यजिनचैत्यवन्दनम् । (स्वागतावृत्तम्) वासुपूज्यः कृतपुण्यकृतान्त, हेलया विजितरागकृतान्त ! योगिनोऽपि विनमन्ति भवन्तं, के त्यजेयूरथवा शुभवन्तम् ॥१॥ या चचाल निजनिश्चलभावात्, योगिनाथत तिरप्यविभावात् । यद्वशा विजयिनं हरिसूनुः, तं जघान वसुपूज्यसुसूनुः ॥ २ ॥ स्वागताप्रभृतिबद्ध निबन्धै स्त्वां स्तुवन्ति कवयः शुचिबन्धैः । नो तथापि गुणवर्णनकृत्ये, सम 'पारयन्ति तव वर्णनकृत्ये ॥३॥ (इति वासुपूज्य चैत्यवन्दनम् ।) श्री बिमलजिनचैत्यत्रन्दनम् । ( मन्दाक्रान्तावृत्तम्) श्यामासून ! तव वरवचः श्रणिषीयूषधारा तृप्तात्मानः प्रकृतिसुभगा मानवा मानधारा: । - उत्पद्यन्ते विबुधभुवनेषूत्तमेषूत्तमास्ते, यत्रानन्दप्रबललहरीप्रोल्लसत्सौख्यमास्ते ॥१॥
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy