SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ (४१) , भयोज्झितः सुस्थिरनासिकाग्रदृष्टिः प्रसन्नाननपुंडरीकः। .. श्लिष्टौष्ठयुग्मो रदनै रदांश्चाऽस्पृशन् सुसंस्थान इतप्रमादः ॥१९॥ स्पृहाविमुक्तो निजभूघनेऽपि प्रभूतसंवेगसरोनिमग्नः । . अमात्रकारुण्यपदं भवश्रीपराङ्मुखो हर्षयितेक्षमाणान् ॥ १२ ॥ एवंविधो निष्ठितकर्मयोगः श्रीज्ञानयोगेन समाहितात्मा । ध्याने प्रवेशं कुरुतेऽतिघोरकर्माटवीज्वालनदाववन्हौ ॥ १३ ॥ नारी-पशु-क्लीब-कुशीलवर्जितं स्थानं विविक्तं किमपि व्यपेक्षते । नानाऽऽसनानामपि यत् स्थिरं सुखं स्वस्याऽवभासेत तदेव साधयेत् ॥ १४ ॥ ध्यानाय कालोऽपि न कोऽपि निश्चितो यस्मिन् समाधिः समयः स शस्यते । ध्यायेन्निषण्णः शयितः स्थितोऽथवाऽवस्था जिता ध्यानविधा तिनी न या ॥ १५ ॥ ध्यानस्य मिद्धय दृढभावनानामावश्यकत्वं मुनयो वदन्ति । मैत्री प्रमोदं करुणामुपेक्षां युञ्जीत, तद् ध्यानमुपस्करोति ॥१६॥ मर्वेपि जीवाः मुखिनो भवन्तु मा कोपि पापाचरणानि कार्षीत् । विमुच्यतां विश्वमशेपमेतद, एवं मतिं नाम वदन्ति मैत्रीम्॥१७॥ देदीप्यमाना गुणगौरवेण महाशया ये भुवनत्रयेऽपि । गुणेषु तेषां खलु पक्षपातो यस्तं प्रमोदं परिकीर्तयन्ति ॥१८॥ शोकाग्निना ये परिदद्यमानाः शुधा तृयाऽऽत्र्ताः सरुजी विभीताः। तय प्रतीकारपरा मतिर्या कारुण्यभायः परिकीर्तिता सा ।।१९।। फराशया दारुणपापसक्ताः माधुद्विषः स्वस्य च शंसितारः । ये शिक्ष्यमाणा विकृति भजन्ते माध्यस्थ्यमीदृश्शु भवत्युपेक्षा ॥२०॥ ध्यानं पुनः स्याद् ध्रुवमामुहुर्ताद् एकाग्रमम्प्रत्ययलक्षणं सत् । आशामपाय च विपाकमेवं संस्थानमालोचयतीह योगी ॥२२॥
SR No.002242
Book TitleAzzattatattaloao
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherZZZ Unknown
Publication Year1938
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy