________________
(१०) षष्ठ-प्रकरणम् ।
ध्यानसिडिः। स्यात् ज्ञानयोगोऽथ च कर्मयोग आवश्यकाऽऽचार इह द्वितीय शारीरिकस्पन्दनकर्मरूपः स कर्मयोगः शुभमातनोति ॥ १ ॥ शुद्ध तपः स्वात्मरतिस्वरूपं तं ज्ञानयोगं मुनयों वदन्ति । . . स उन्मनीभावत इन्द्रियार्थाद् निःश्रेयसश्रीप्रतिपादकः स्यात् ॥२॥ क्रियोच्चकोटीमुपजग्मुषां याऽनावश्यकी सा. व्यवहारवृत्ती। . गुणावहाऽस्तीति परम्परातोऽपवर्गसम्पादकताऽक्षताऽस्याम् ॥३॥ अभ्यस्यतोऽपेक्षत एव सम्यक् क्रिया मनःशुद्धिकृतेऽस्खलम्ती । योग समारूडवतो मुनेस्तु शमप्रवाहः परमात्मभूमौ ॥ ४ ॥ नैवाऽप्रमत्तषिमहोदयानामावश्यकाऽऽचारविधेयताऽस्ति । य आत्मतृप्तो यक आत्ममग्नो य आत्मतुष्टो न हि तस्य कर्म ।।५।। मनः स्थिरीभूतमपि प्रयायाद रजोबलाचञ्चलभावमाशु । प्रत्याहतेनिग्रहमातनोति ज्ञानी पुनस्तस्य गतप्रमादः ॥ ६ ॥ विलोलचित्तस्थिरतार्थमेव बद्धप्रयत्नः सततं मुनिः स्यात् । कुर्यादतो हेतुत एव शास्त्रोंदितां क्रियां प्रत्यहमुञ्चभावात् ॥७॥
सम्यक्तयाऽभ्यस्य च कर्मयोगमनन्यसायं समुपाश्रितो यः । सदाऽप्युदासीनतया स्थितस्य न तस्य भोगैर्भवति प्रलेपः ॥८॥ नाऽऽप्य प्रियं दृष्यति नोद्विजेच्च प्राप्याऽप्रियं ब्रह्म विदुत्तमर्षिः । यःस्यात् समेक्षी विषमेऽपि जीवन्मुक्तं स्थिरं ब्रह्म तमीरयन्ति॥९॥ नहीन्द्रियार्थेषु यदाऽनुरज्येत् समस्तसङ्कल्पविमुक्तचेताः । योगे समाकदतया तदानीमसौ महात्मा परिवेदितव्यः ॥१०॥