________________
आश्रित्य लोकोत्तरपुरुषाणामाज्ञामबाधां परिचिन्तनं यत् । वस्तुस्वरूपस्य यथार्थतात आज्ञाभिधं ध्यानमिदं वदन्ति ॥२२॥
बभाषिरे सर्व विदोऽतिसूक्ष्म तत्वं न तत् तार्किकतर्कजालैः । विहन्यते तत् प्रतिपत्तियोग्यं नान्यथा सर्वविदो बदन्ति ॥२॥
अध्यात्ममार्गाऽऽश्रयणं विनाऽयमात्मा भवेऽभ्राम्यदनन्तकालम् । रागादिदोषैकवशीभवन्तो निर्यान्ति नापायमहावीतः ॥२४॥
मोहान्धकारप्रविलुप्तचेतसा नाऽकारि किं किं कदषं मया रहा। श्वश्रेषु तिर्यक्ष नरेषु चोल्बणं दुःखं न किं किं प्रतिपद्यते स्म चः ॥२५॥ गम्भीरसंसारमहाऽऽपदाजले कालो गतोऽयं अडता ममाऽखिलः । कस्याऽपराधोऽत्र मया विचार्थते प्रमाद एतस्य ममागचंतमः॥२६।।
प्राप्याऽपि बोधि परमां मनावचःशरीरदुश्चेष्टितता मयैव हि । स्वमस्तके ज्वालित आशशक्षणिः कोऽत्रापराधी पग्भिाव्यतेऽपरः?
॥ २७ ॥
स्वाधीनतायामपि मुक्तिवर्मनी भ्रान्त्या स्वयं पातित एष नंतनः। भिक्षां यथाऽटेदुपलब्धगज्यका मोक्ष म्वतन्त्रेऽपि तथा भवभ्रमः
॥ २८ ॥ एवं हि रागादिकदूषणेभ्यो जाता अपायाः परिचिन्तनीयाः । यम्मिनपाया अपि तन्प्रणाशे ध्यानं द्वितीय तदपायनाम ॥२९॥
उदीरितः कर्मफलं विपाकः शुभाशुभत्वेन म च विभेदः । द्रव्यादियोगात् स च चित्ररूपोऽनुभूतिमाम्कन्दति देहभाजाम॥३०॥
द्रव्यैर्वध-माल्प-सुभोजनाचैः शुभाऽशुभः शस्त्रविषानलायः । क्षेत्रे निवासेन महालयादौ शुभः श्मशानप्रभृतौ तदन्यः ॥३१॥ काले प्रसन्नप्रभृतावशीतानुष्णे शुभोऽन्यत्र विपर्ययश्च । मनःप्रसादप्रभृतौ च भावे शुभोऽशुभो रौद्रविकारभावे ॥ ३२ ॥