SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ (३८ महीपतिश्चक्रधरः सुरेश्वरो योगीश्वरो वा भुवनत्रयेश्वरः। सर्वेऽपि मृत्योरुपयान्ति गोचरं तदध कः स्याच्छरणं शरीरिणः? ॥ २३ ॥ भवोदधिर्जन्मजरावसान-पयःप्रपूर्णः स्मर वाडयश्च । मोहात्मकाऽऽवर्त्त-विपत्तिमत्स्यः कुतः सुखं सम्भवतीदृशीह?॥२४॥ एकाकिनः प्राणभृतां गतागतं कुर्वन्ति संसारवने भयङ्करे। . अन्यार्थमुत्पाद्य धनं भवान्तरं प्रयात एकः परिपीड्यतेऽसुमान् विलक्षणः सर्वबाहि प्रपञ्चतः मचिन्महानन्दमयोऽस्ति चेतनः। . इदं शरीरं स्फुटमन्यदात्मनः कस्ती नन्यो भुवनेऽभ्युपेयते? ॥२६॥ द्वारैः प्रवद्भिवभिः सदैवाऽशुचीन घृणायाः पदमस्ति कायः । तथाप्यहो! तत्र यदस्ति शौचसंकल्पनं मोह विलास. एषः ॥२७॥ मनोवचोमूघनकर्म योगाः स आत्रयः कर्मण आस्रवेण । शुभाशुभं कर्म शुभाशुभाद्धि योगाग्निबध्नन्ति शरीरभाजः ॥२८॥ यथाम्बु गृहाति हि यानपात्रं छिद्रेस्तथा चेतन एष कर्म । योगाऽऽत्मरन्धैरशुभैः शुभैर्वा निर्यात्यमुष्मिन् सति नो भवाब्धेः निरोधनं यत् पुनरामवाणां तं संवरं योगिन ऊचिवांसः । विभावनादानव-संवरस्य भवादुदासीनतया मनः स्यात् ॥३०॥ स्यात् कर्मणां निर्जरणं च निर्जरा द्विधा मकामेतरभेदतः पुनः। पाकः फलानामिव कर्मणामपि स्वतोऽप्युपायादपि सम्प्रजायते यथाऽस्ति जीवश्च जडैश्च पुर्णा लोकोऽयमेवं परिचिन्तनं यत् । सा भावनां लोकविचाररूपा मनोवशीकारफलप्रधाना ।। ३२ ॥ जगत् समुद्धर्जुमनल्पदुःखपङ्कादही ! कीदृश एष धर्मः । प्रादर्शि ढोकोत्तरपूरुषैर्यत्सेवात आनोति महादयत्वम् ॥ ३३ ॥
SR No.002242
Book TitleAzzattatattaloao
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherZZZ Unknown
Publication Year1938
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy