________________
(२०) यस्मिन् प्रदीपे शलभन्नि दोषा यस्मिन सुधांशी परितापशान्तिः। यस्मिन् समुद्रे गुणरत्नभूतिस्तद् ब्रह्म को न स्पृहयेत् सचेताः॥३५॥ यस्मिन् दिनेशे परितप्यमान उपद्रवध्वान्त उपैति नाशम् । इष्टार्थसम्पादनकल्पवृक्षेऽस्मिन् ब्रह्मचर्य सुधियो यतेरन् ॥३६।। सिंहासने वोपषिशन सुरेन्द्रः प्रवन्दते यान् शुचिभक्तिननः । . ते ब्रह्मचर्यव्रतबद्धचित्ता मनस्थिना मयंभुवां जयन्ति ॥ ३७ ॥ .. फलन्ति मन्त्रा वहते च कीतिरध्यासते सन्निधिमप्यमाः । . यस्मिन् सति प्रस्फुरितप्रभावे तद्ब्रह्मचर्य सुविचारलभ्यम् ॥३८॥
अस्थ्नां प्रभूतं बलमर्पयन्तं रक्तप्रवाहं प्रविकासयन्तम् । मुखे प्रतापारुणतां दधानं न कः सुधीब्रह्मयमं सुरक्षेत् ! ॥३९॥ म तं शरत्पर्व हिमांशुरोपिः प्रह्लादमुत्पादयितुं क्षमेत । गत रसं दिव्यफलानि चापि हार्द रसं ब्रह्म यमातनोति ॥१०॥ यत् प्राणभूतं मुनिधर्मलक्षम्या हेतुः परब्रह्मणि यश, यस्मात् । निर्याति मेधा तटिनीष शैलात् तत् पालयन् ब्रह्म न पूज्यते
इह प्रतिष्ठा च परत्र च स्वर्यस्माददो ब्रह्म विहाय, मार्गम् । आपातमात्रे रमणीयमन्ते किम्पाकवद दारुणमाश्रयेन ॥ ४२ ॥ देहे तपस्येव न तापहेतुर्हेतुर्न वा भक्तिरिव श्रमस्य । स्वभावसिद्धो मनसः पवित्रीभाव स्थितो ब्रह्मयमश्वकास्ति ॥४३॥ परिक्षमन्ते गृहमेधिनस्तु म सर्वथाब्रह्ममहाव्रताय । तद् देशतो ब्रह्मणि ते यतेरन् स्वदारतुष्टाः परदारवर्जाः ॥४॥ त्रिय स्वसार जननी सुतां वा स्वां कामदृष्टया समवेक्षमाणे । कांधोपतापप्रभवं विचिन्त्य परस्य नार्या न दृशौ क्षिपेत ॥४५॥ • नहि स्वदारा अपि सेवितव्या आसक्तितः, किं पुनरन्यनार्यः। नोत्साते क्षेप्तुमितस्ततः स्वं ही ! यत्यते पातयितुं तु रेतः॥४।।