________________
( १९ )
यतः परिकेशमुपैति जन्तुर्भाषेत सत्यामपि तां गिरं न । पृष्टोऽपि जल्पेन कदापि मर्मावित् कर्कशं वैरनिबन्धनं च ॥ २३॥
पुनन्ति ते स्वीयपदारविन्देः पृथ्वीतलं सुन्दरभागधेयाः । मनोवचो भूघननेष्टितानि स्पृशन्ति नासत्यविषं यकेषाम् ||२४||
प्लुष्टistant ! प्रज्वलिताग्निना दुः सान्द्रीभवेद्, दुर्वचसा न लोकः । वाकू सूनृता यं तनुते प्रमोदं न चन्दनं तं न च रत्नमाला ||२५॥
विनश्वरी श्रीश्वपलाश्च भोगाः स्वार्थैकबद्धाः स्वजनाः समग्राः । अतो मृषावाद उपासनीयः किमर्थमेषा सुधियां मनीषा ॥ २६ ॥
अप्रत्ययं यद् वितनोति लोके दुर्गासनानां ददते निवासम् । दोषान् प्रसूने प्रवलान् क्रमेण तद् धर्मशीलो न वदत्यसत्यम् ||२७|
व्रतानि शेषाणि वदन्त्य हिंसासरोवरे पालिसमानि धीराः । सत्यस्य भने सति पालिभङ्गाइनर्गलं तत् खलु विप्लवेत ||२८||
स्वमन्यदीयं हरताऽधमेन दत्तः स्वधर्मोपवने प्रदाहः । इतं धनं स्वास्थ्यमुखं न सूते तस्मात् परिभ्रष्टमितस्ततोऽपि ||२९|| दरिद्रता- दुर्भगता - शरीरच्छेदादिकं स्तेयफलं विलोक्य । तत्र प्रवृत्तिव्यसनं समुज्झेत्, युक्तो ग्रहीतुं न तृणोऽप्यपृष्टवा ||३०|| अद्यापि नो दृष्टमिदं श्रुतं वा यत् स्तेयमालम्बितवान् मनुष्यः । प्रभूतमानन्दमपेतशङ्कमभुक्त कोटीश्वरतां प्रपद्य ॥ ३१ ॥
चौपापमधिष्ठितोऽस्ति स्वास्थ्यं परं हारितवान् न, किन्तु । धृतिं च धैर्य च मर्ति च सम्यग् जन्मान्तरं चापि स हीनभाग्यः ||३२|| यो मार्यतेऽसौ क्षणमेक एव प्राप्नोति दुःखं प्रविणे हृते तु । 'पुत्रपौत्रोऽप्युपयाति याषजीवं विचिन्त्येति जहातु चौर्यम् ॥३२॥
स्तेयप्रवृत्तिः खलु नीचकार्यमस्तेयवृत्तिः पुरुषार्थमार्गः । विशुद्धहस्तस्य च साधुवादः शाम्यम्स्यनर्थाश्च परत्र नाकम् ॥ ३४॥