________________
( १८ )
शरीरिणां वल्लभ लभं च प्राणाः स्वकीया इदमर्थमेक | साम्राज्यमप्याशु जनास्त्यजन्ति तत् किंविधं दानमलं वधाय ? ॥११॥
अम्यस्य चेतः कमलस्य खेदहिमोदकेन ग्लपनेऽपि धीराः । हिंसावकाशं समुदीरयन्ति कथीकृतौ किं पुनरङ्गभाजाम् १ ॥ १२ ॥
चण्डरोगाभिहतः पशुर्वा नरोऽथवा मारयितुं न युक्तः । मोदित प्राप्स्यति शंस मृत्वा नेताऽपि च प्राप्स्यति दुःखमुप्रम् १३।
व्यापादनं हिंसकवृत्तिभाजामपि क्षमं नेत्यवधारणीयम् । लोके श्व-माजर-मयूर-गृध्रादयोऽङ्गिनः केन भवन्ति हिंस्राः १ ॥ १४ ॥
भयङ्करैर्वृश्चिक- दन्दशकादिभिः परिक्लेशमधिश्रितोऽपि । न मारयेन्नापि च ताडयेत् तान् नात्र कंश्चित् फलसिद्धिलेशः || १५ ॥
न पापहेतुः सुकृताय पापोच्छेदाय वा प्राणिवधः कदापि । किं जायते जीवितनाशहेतुर्हालाहल जीवितसम्पदायै ? ||१६||
धर्मस्त्वहिंसा प्रभवः, कथं तद् हिंसात आविर्भविता कदापि ? | नाम्बुतः सम्प्रभवन्ति पाथोरुहाणि वन्हेर्जननं लभन्ते ॥ १७ ॥
इदं परं तेज इथं परा श्रीरिदं परं भाग्यमिदं महत्त्वम् । अशेषविश्वेश्वरनम्र मौलिनमस्कृतं सत्यमहाव्रतं यत् ॥ १८ ॥
मृषोद्यते यत् फलमाकुलय्य फलस्य खल्वस्य मुवाऽऽगसश्च । अस्त्यन्तरं कीदृगवेक्षणीयं युक्ता हि कार्येषु तुलासमा धीः ॥ १९ ॥
धनार्जनं न्यायपथेन सम्यगुच । गतोऽशक्यतया क आह ? । आरम्भतो धीरतया तु सा आपद्यमानाः प्रतिकूल योगाः ||२०| शाम्यन्ति सर्वाण्यपि दूषणानि यथार्थवादे प्रविजृम्भमाणे । मृगेश्वरे क्रीडति वारणानां सम्भावनीयो हि कुतः प्रचारः १ || २१ ||
प्रयातु लक्ष्मीः स्वजना अरातीभवन्त्वकीत्तिः प्रसरीसरीतु । अचैव वा मृत्युरुप स्थितोऽस्तु वदेदसत्यं न तथापि धीरः ॥२२॥