________________
( १७ )
तृतीय-प्रकरणम् ।
अष्टाङ्गयोगः ।
यत्रास्ति दुःखाननुविद्धमेवानन्तं सुखं शाश्वतमेष मोक्षः । समग्रकर्मक्षय लक्षणोऽसौ नास्ति मुक्तिः सति कर्मलेशे ॥ १ ॥
offrent भवतो विभिन्नौ स्वर्गाद् यतः स्यात् पतनं, न मोक्षात् । स्वर्गे सुखश्रीः पुनरिन्द्रियोत्था ज्ञेया परब्रह्ममयी तु मोक्षे ||२||
सकर्मकाकर्मको द्विधाऽऽत्माऽऽदिमस्तु संसारितया प्रसिद्धः । अकर्मको निर्वृत-मुक्त - मिद्ध - ब्रह्मादिशब्दैरभिधीयते च ॥ ३ ॥ मोक्षrssar योगविदः पुराणा योगस्य पन्थानमदीदृशन्नः । अष्टानभेदः स पुनः प्रसिद्धः प्रदर्श्यते किञ्चन तत्स्वरूपम् ||४|| यमनियमासनप्राणायामाः प्रत्याहृतिश्च धारणया । सार्धं ध्यानसमाधी इत्यष्टाङ्गानि योगस्य ॥ ५ ॥
तत्राहिंसासत्यास्तेयब्रह्मापरिग्रहाश्च यमाः । शौचं तोषश्च तपः स्वाध्यायः प्रभुविचिन्तनं नियमाः ॥ ६ ॥ एकान्ततोऽभिन्नतया शरीर-शरीरिणौ सम्भवतो न युक्तौ । परी भवः कस्य हि जाघटीतु नाशे शरीरस्य शरीरिनाशात् ? ॥७॥
नाप्येवमेकान्तपृथक्त्वमङ्गाङ्गिनोर्विचाराध्वनि सञ्चरिष्णु । एवं हि हिंसा नहि मम्भवित्री हते शरीरेऽपि शरीरभाजः ॥८॥
मेधाविनस्तत् प्रतियन्ति देहादू विभिन्नमप्यभृतं कथञ्चित् । संयोगतोऽभिन्नमतोऽङ्गनाशे या स्याद् व्यथा तां प्रवदन्ति हिंसाम् ९॥
आकीटकादा च सुराधिराजात् सर्वत्र जीवेषु सुखासुखस्य । प्रियाप्रियत्वं परिनित्य धीमान् न क्वापि हिंसाऽऽचरण विदध्यात् ॥ १० ॥