SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ( १५ ) वदन्ति सन्तः प्रतिपद्यते च दावा भिकल्पो भव एव भीमः । विचित्ररूपास्ति च कर्मसृष्टिस्तद् भोगकीटीभवितुं न युक्तम् ||३२|| नानाविधस्वादुरसप्रपूर्णभोज्योपभोगे प्रविधीयमाने । प्रपद्यते यद्यपवर्गलक्ष्मीर्भवे तदा को बत पर्यटन् स्यात् ? ॥ ३३ ॥ अन्तःशरीरं प्रचरन्ति कर्मप्रत्यर्थिनो गुञ्जदनन्तशौर्याः । अनं प्रवेश्यं यदि पोषणीया नाम्नं प्रवेश्यं यदि शोषणीयाः ||३४|| सम्पादितश्चेत् तपआदरेण कष्टस्य सम्यक् सहनस्वभावः । बहुप्रसक्ने फलवान् तदा स्याद् रौद्रो न च स्याद् मरणक्षणोऽपि ॥३५॥ भुक्तिः सकृद वा रसवर्जिता वे-षदूनकुक्षिर्मितवस्तुभिर्वा । दिव्याशनानामपि साम्यतो वा प्रकीर्तिता सापि तपःस्वरूपा ॥ ३६ ॥ मास्य मन्द्रीकरणं तपोऽस्ति प्राप्तं रहस्यं तपसोऽत्र सर्वम् । धन्या रमन्तेऽत्र विवेकदीप प्रोद्भासितात्मोन्नति हेतु मार्गाः ||३७|| समग्रकर्मक्षयतोऽपवर्गो भवाभिनन्दा इमकं द्विषन्ति । अज्ञानसाम्राज्यमिहास्ति हेतुरही ! महादारुण एष मोहः ||३८|| संसारभोगे सुखमद्वितीयं ये मन्वते दुप्तविवेकनेत्राः । निःश्रेयसं ते समधिक्षिपन्त आश्चर्यपात्रं न सतां भवन्ति ||३९|| सुस्वादुभुतिर्मधुरं च पानं मनोज्ञवस्त्राभरणादिधानम् । इतस्ततः पर्यटनं यथेष्टं वयस्यगोष्ठी सुमुखीमुखं च ॥ ४० ॥ इत्यादिकं शर्म बहुप्रकारकं संसारवासे प्रकट प्रतीतिकम् । ast क्व नामेति विषस्य मोदकान् प्रसारयन्त्यज्ञगणे कुबुद्धयः ४१॥ युग्मम् । संसारभोगेषु सुखं यदेव प्रतीतिमारोहति दुःखमेतत् । shere क्षणभङ्गुरत्वाद् दुःखान्वितत्वादमहत्त्वतः ॥ ४२ ॥
SR No.002242
Book TitleAzzattatattaloao
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherZZZ Unknown
Publication Year1938
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy