SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ (१२) द्वितीय-प्रकरणम् । पूर्वसेवा। न दुष्करो योगपथाधिरोहः किं दुष्कर तहि जगत्त्रयेऽपि ?। योगस्य भूमावधिरोहणार्थमादावुपायः परिदर्यतेऽयम् ॥ १॥ . पूजा गुरूणामथ देवताया आचारशुद्धिस्तपमि प्रवृत्तिः। . . निःश्रेयसे द्वेषविवर्जितत्वमेव शास्त्रेऽकथि · पूर्वसेवा' ॥२॥ पिता च माता च कलागुरुश्च ज्ञातेयवृद्धाः पुनरेतदीयाः । धर्मोपदेशप्रवणा महान्तः सतां मतः श्रीगुरुवर्ग एषः ॥ ३॥ कर्तव्य एतस्य सदा प्रणामश्चित्तेऽप्यमुष्मिन् बहुमान एव । पुरोऽस्य सम्यग् विनयप्रवृत्ति वर्णवादस्य मिबोधनं च ॥ ४ ॥ आराध्यभावः प्रथमोऽस्ति पित्रोविमानयंस्तो लघुधीव॒धोऽपि । आराधयेद् धर्मगुरुकमौ किं नाबद्धमूलस्तरुरेधते हि ॥५॥ पुण्यैर्महद्भिर्गुरुदेवसेवा सम्प्राप्यते, तत्र नहि प्रमादः । कर्तुं नमो बुद्धिमतां कदापि कल्याणगङ्गाप्रभवोऽयमध्वा ।। ६ ।। अनादरं ये गुरुदेवतानां कुर्वन्ति, पात्रं खलु ते कृपायाः । अमी वराका निजकर्मदोषाहता यतः श्रेयसि प्रस्खलन्ति ॥७॥ चलश्रियै दास्यमुपैति यस्य तस्यायमानः परिषद्यते चेत् । न सह्यते तर्हि कथं गुरूणामप्य प्रिया भावुककारणं वाक् ? ॥८॥ प्रेम्णा बलाद् वा वनितावचांसि सत्कारमार्गेऽस्खलितं नयन्ति । वाचं हितां तत्रभवद्गुरूणां न मन्यते, कीवृश एष मोहः ? ॥९॥
SR No.002242
Book TitleAzzattatattaloao
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherZZZ Unknown
Publication Year1938
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy