SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ अस्ति त्रिलोक्यामपि काशरण्यो जीवस्य नानाविधदुःखभाजः ?। धर्मः शरण्योऽपि न सेव्यते चेद् दुःखप्रहाणं लभतां कुतस्त्यम्?।।५७|| संसारदावानलदाहतप्त आत्मैष धर्मोपवनं श्रयेच्चेत् । क्ष तर्हि दुःखानुभवावकाशः? कीदृक्तमो भास्वति भासमाने?||५८ मातेव पुष्णाति पितेव पाति भ्रातेव च नियति मित्रवञ्च । प्रोणाति धर्मः परिषेवितस्तद अनादरः साम्प्रतमस्य नैव ॥५९॥ सौस्थ्यं धनित्वं प्रतिभा यशश्च लब्ध्वा सुखस्यानुभवं करोषि । यस्य प्रभावेण तमेव धर्ममुपेक्षमाणो नहि लजसे किम् ? ॥६०॥ इच्छन्ति धर्मस्य फलं तु सर्व कुर्वन्ति नामुं पुनरादरेण | नेच्छन्ति पापस्य फलं तु केऽपि कुर्वन्ति पापं तु महादरेण ॥६१|| इष्यन्त आम्रस्य फलानि चेत् तत् तद्रक्षणादि प्रविधेयमेव । एवं च लक्ष्म्यादिफलाय कायर्या कुर्वन्त्यबोधा न हि धर्मरक्षाम्॥६२।। सुखस्य मूलं खलु धर्म एवच्छिन्ने च मृले क्व फलीपलम्भः ? | आरूढशाखाविनिकृन्तनं तद् यद् धर्ममुन्मुच्य सुखानुपङ्गः ॥६३॥ करोषि यत् त्वं वपुषः सदैव पोषाय चालङ्करणाय चेहाम । प्रतिग्रहः किं नु फलस्य देहाद वितर्फितश्चेतसि वर्तते ते ? ॥६॥ भुक्तानि भोज्यानि सुरोचका नि पीतानि पेयानि रमाद्भतानि । यदा बहिस्तात् क्षिपते शरीरं तदा विरूपत्वममीपु कीदृक? ॥६५॥ रसायनं सेवतु* सर्वदापि भुक्तां पुनः पौष्टिकभोजनानि । तथापि नो नहक्ष्यति देहकुम्भे भस्मावशेषीभवनस्वभावः ॥६६॥ तैलेन मम्मनितो यथावत् स्नानात जलेनोत्तमगन्धिना च । सुराघटादप्यतिनिन्ध एप कायोऽशुचिः किं भविता पयित्रः॥६७॥ रोगः प्रपूर्ण भविनां शरीरमन्त:स्थितवेषु जनो मदान्धः । यदा बहिस्ते प्रकटीभवन्ति दीनाननः पश्यति दुःखमेव ॥६॥ सेव् ' धातोः परस्मैपदित्वे सुलभाः शिष्टप्रयोगाः ।
SR No.002242
Book TitleAzzattatattaloao
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherZZZ Unknown
Publication Year1938
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy