________________
( २ )
अध्यreneral प्रसरत्प्रतापे मनोनगयो परिभासमाने । कुतस्तमः ?, शुष्यति भोगपङ्कः, कपायचौरैः प्रपलायते च ॥९॥
आनन्दपूर्णा च सुधां समाधिं वितन्वतेऽध्यात्मसुधाकराय । स्पृहा यदीये हृदि नाविरासीत् पशुर्नृरूपेण स मोघजन्मा ॥ १० ॥
योऽध्यात्मशस्त्रं वहते प्रतीक्ष्णं भवेद् भयं तस्य कुतस्त्रिलोक्याम् ? | - तिरस्कृतो वा नितरां स्तुतो वा नाध्यात्मविद रुष्यति मोदते व ११ ॥
विधाय पापान्यतिभीषणानि येऽनन्तदुःखातिथयां बभूवुः । एतादृशामप्युददीधरद यत किं वर्ण्यतेऽध्यात्मरसायनं तत् १ ॥ १२॥
आत्मस्वरूपस्थित चित्तवृत्तेर्भवप्रपञ्चेषु तटस्थदृष्टेः । अध्यात्मराजेश्वरसुप्रसादे का न्यूनता सिद्धिषु लब्धिषु स्यात? ॥ १.३ ॥
आत्माऽस्ति कर्माऽस्ति परां भवोऽस्ति माक्षाऽस्ति तत्साधक हेतुरस्ति इत्येवमन्तःकरणे विधेया दृढप्रतीतिः सुविचारणाभिः || १४ ||
अर्वादृशां नैव परोक्षभावाः प्रत्यक्षधीगोचरतां लभन्ते । अतीन्द्रियज्ञानिकृतोपदेशैः सन्तो यथार्थ प्रतियन्ति किन्तु || १५ ||
शुद्धात्मतत्त्वं प्रविधाय लक्ष्यममूढदृध्या क्रियते यदेव । अध्यात्ममेतत् प्रवदन्ति तज्झा नचाऽन्यदस्मादपवर्गबीजम् ॥१६॥
अध्यात्मभूमीभूत ऊर्ध्वभागे दार्त्स्न्येन यद्यस्ति व आरुरुक्षा । महाशयास्तर्मुपदिश्यमानं निबोधतेदं हृदयेन तायत् ॥ १७ ॥
महीयसा पुण्यसमुचयेन सम्पद्यते मर्त्यभवो विशिष्टः । सार्थक्यमेनं च नयन्ति सन्तः सञ्ज्ञान- सम्यक्चरिते प्रपथ ||१८|| . प्राप्तान्यनन्तानि वधूंध्यनेन जीवेन मांहेन वशीकृतेन । मोहस्य रु खलु देहलाभो देहे च लब्धे पुनरुप्रदुःखम् ||१९||
जन्मक्षणे व संगमे च पञ्चत्वकाले नियतं हि दुःखम् । रोगादिजातानि पुनः कियन्ति दुःखानि मेयानि भवाम्बुराशौ ? २०||