________________
अध्यात्मतत्त्वालोकः।
(मूलग्रन्थः।)
अध्यात्मपीयूषमनक्षगम्यं पीत्वा कणेहत्य विषं निजध्नुः । अनादिकर्मप्रचयात्मकं ये त्रिधा प्रवन्दे परमात्मनस्तान् ॥१॥
हतं हहा : शाम्रविशारदत्वमनर्थहेतुश्च वचःपटुत्वम् । विज्ञान वेत्तृत्वमपार्थकं च नाऽऽस्वादितोऽध्यात्मसुधारमश्चेत् ॥२॥ ज्ञानस्य भक्तेस्तपसः क्रियायाः प्रयोजनं खल्विदमेकमेव । पेतःममाधी मति कर्मलेपविशोधनादात्मगुणप्रकाशः ॥३॥
ध्यानं च मौनं च तपः क्रिया च नाध्यात्ममार्गाभिमुखीभवेञ्चेत् । न तर्हि कल्याणनिवन्धनं स्याद युक्ता हि लक्ष्याभिमुखी प्रवृत्तिः॥४॥
दीप पयोधी फलिनं मरौ च दीपं निशायां शिखिनं हिमे च । कलौ कराले लभते दुरापमध्यात्मतत्वं बहुभागधेयः ॥५॥ जरा जराया मरणं च मृत्योः सर्वापदानामपि राजयक्ष्मा। जन्मगुबीजाग्निरनन्तविधानिदानमध्यात्ममहोदयश्रीः ॥६॥
तेऽपि प्रचण्डा मदनस्य बाणाश्छिद्राकुलं यैः क्रियते तपोऽपि। अध्यात्मवाऽपिहिते तु चित्ते निःसंशयं कुण्ठिततां भजन्ते ॥७॥ अध्यात्मधाराधरसन्निपाते मनोमरौ पुष्यति योगबीजम् ।। पुण्याङ्करा निर्भरमुलसन्ति सर्वत्र शान्तिः प्रसरीसरीति ॥८॥