________________
* स्वाध्याय करते समय इसे पढ़ना आवश्यक है।
ॐ नमः सिद्धेभ्यः
ओंकार बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव, ओंकाराय नमो नमः ॥१॥ अविरलशब्दघनौघ प्रक्षालितसकलभूतलकलंका । मुनिभिरुपासिततीर्था सरस्वती हरतु नो दुरितान् ॥२॥
अज्ञानतिमिरांधानां ज्ञानांजनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ श्रीपरमगुरवे नमः, परम्पराचार्य श्रीगुरवे नमः ।
सकलकलुषविध्वंसकं श्रेयसां परिवर्धकं धर्म संबंधकं भव्यजीवमनः प्रतिबोधकारकमिदं शास्त्रं “श्री शांतिनाथ पुराण" नामधेयं, एतन्मूलग्रन्थकर्त्तारः श्रीसर्वज्ञदेवास्तदुत्तरग्रंथकर्त्तारः श्रीगणधरदेवाः प्रतिगणधरदेवास्तेषां वचोऽनुसारमासाद्य श्री सकलकीर्ति आचार्येण विरचितम् पं. श्री लालाराम शास्त्री अनूदितम् ।
मंगलं भगवान् वीरो मंगलं गौतमो गणी । मंगलं कुन्दकुन्दाद्यो जैन धर्मोऽस्तु मंगलम् ॥ सर्व मंगल्य मांगल्यं सर्व कल्याण कारकं । प्रधानं सर्व धर्माणां जैनं जयतु शासनम् ॥
सर्वे श्रोतारः सावधानतया श्रृण्वन्तु ॥