________________
वादस्थानकम्
इदमवगततत्त्वैः सूरिभिः शोधनीयं, स्खलति यदिह बुद्धिः कस्य नो मादृशस्य ॥ २ ॥ चलनकमलसेवां मादृशैः प्राप्य यस्य, श्रुतपदमकरन्दस्यन्दबिन्दुप्रदात्रीं । भुवनसरसि शोभा लभ्यते राजहंसी, स जयति मुनिचन्द्रः श्रीमुनीन्द्रः कवीन्द्रः ॥ ३ ॥ तदनु जयति जेता सर्ववादिद्विपानां, विनय-नयसुदृष्टिर्देशनानादभीमः । चरण-करणदक्षोऽक्षोभ्यमूर्तिम॒गेन्द्रो,ऽपर इव मुनिराजो मानदेवाऽऽख्यसूरिः ॥ ४ ॥ यदीयवाक्याऽमृतसारणीभिः, सिक्ताः समन्तानिखिलाः समायुः(पुः) भव्यांहिपाः वृद्धिमनिन्यवृत्तिः, स देवभद्राऽऽख्यगणिर्विजीयात् ॥ ५ ॥
मोहोन्मूलननामकं वादस्थानकं समाप्तमिति ॥