________________
वादस्थानकम्
. तथा कथाकोश - कल्याणकप्रकरण - भुवनसुन्दरी - स्तवनेषु यदि सत्यमेव श्रावकेण सा कार्येत्युक्तं तदोमास्वातिवाचकादिकृतप्रतिष्ठाकल्पादिशास्त्रविरोधादेतेषां चिन्त्यमद्याप्यागमानुपातित्वम् । यतो न ह्युक्तमात्रेण तदनुपातित्वम्, अन्यथा -
"सच्चइ सुब्बइ नरयगओ दसपुववियाणओ । मासतुसाहि(दि?) वि हु य(ग)ओ मोक्खु जो आसि अयाणओ" ।
तथा –
"पिच्छए रयणिविरमंमि सुहपरिणए" [ ] इत्याद्यपि तदनुपाति स्यादुक्तत्वाऽविशेषात् । तस्मात्तदननुपातित्वात् कथं तत्प्रामाण्यम् ?
अथाऽऽगमाननुपातित्वे प्रामाण्यमिति पक्षस्तदा वेदादीनामपि प्रामा‘ण्यप्रसङ्गः ।
किञ्च - . यदि स्तवनप्रामाण्येन सा श्रावकेण कार्या, तदा - - “नमि-विनमिकुलान्वयिभिः विद्याधरनायकाचार्यैः ।
काशहूदाख्ये नगरे प्रतिष्ठितो जयति जिनवृषभः ॥" - इत्यादिस्तवनवचनान्यपि सन्त्यतः सूरिणाऽपि सा कार्येति किं नाभ्युपगम्यते ?
'समुद्धरेज्ज'ति समुद्धरेत् = पुनर्नवीकुर्यात् । यतः 'मोक्खंग'ति मोक्षाङ्गं = निर्वाणाङ्गम् । ‘एवं ति एतत् = पूर्वोक्तम् । 'महाफलं' ति बृहत्फलमित्यर्थः । इतिः = प्रकरणपरिसमाप्ताविति वृत्तार्थः ॥ ३८ ॥
- श्रीदेवचन्द्ररिकृतवृत्तौ ।