SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आचार्यवर्य श्री अजितदेवसूरिविरचितं मोहोन्मूलन-वादस्थानकम् ॐ नमो वीतरागाय । . महादिमोहमातङ्गकुम्भभङ्गे मृगाधिपं । आदावादिजिनं नत्वा मोहोन्मूलनमुच्यते ॥ १ ॥ इह हि महामोहबहलतमतम: पटलविलुप्तविवेकलोचना: केचनाऽसमञ्जसवचनप्रपञ्चाः पञ्चबृहत्पुरुषसंमतामप्याचार्यकर्तृकार्हत्प्रतिमाप्रतिष्ठां न प्रतिपद्यन्ते । अनुमानयन्ति च -. [ पूर्वपक्ष: ] यथा - “ श्रावकेणैवार्हत्प्रतिमाप्रतिष्ठा कार्या, दमयन्ती - तिलकमञ्जरी - स्थानक - कथाकोश कल्याणकप्रकरण - भुवनसुन्दरी - स्तवन कल्प आवश्यकेषु उपमिति - पञ्चाशक प्रशभर निशीथ श्रावकस्यैव जिनबिम्बप्रतिष्ठाकर्तृत्वेन श्रूयमाणत्वात्; इह यत्कर्तृकं शास्त्रे श्रूयते तत्तत्कार्यमेव, जिनभुवनादिविधानवत्, श्रूयते चैतच्छास्त्रेषु तत्कर्तृकार्हत्प्रतिमांप्रतिष्ठा, तस्मात् सा तेन कार्या । " न चायमसिद्धो हेतु:, यतो दमयन्त्यामिदमभाणि " तत्थ बहुमज्झदेसे पवराययणं पराए भत्ती । कारवियं जिणभुवणे पइट्ठियं संतिजिणबिंबं ॥" · · · १. महा आदिर्यस्य स तथोक्तः, अर्थात् महामोहः । २. न चाशठपञ्चगीतार्थाचरितं कुर्वतां भगवदाज्ञाभङ्गोऽपि कश्चन । ३. मूलशुद्धिप्रकरणम् इत्यस्य ग्रन्थस्य अपरनाम । - - - प्रवचनसारोद्धारगाथा-५०८ वृत्तौ ।
SR No.002237
Book TitleMohonmulanvadsthanakam
Original Sutra AuthorN/A
AuthorJaysundarvijay, Mahabodhivjay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy