________________
यशोधरचरित्रम् अहिच्छत्रकुमाराय राज्यपट्टोऽस्य वध्यताम् । सुतस्याशु यतो दीक्षा भवेन्मे पापनाशिनी ॥१०॥ एवं तातवचः श्रुत्वा भोगनिस्पृहमानसः। राजानं प्रत्यहं वच्मि वाक्यं प्राक् स्वतपःकरम् ॥१०॥ भोगयुक्तां कथं तात श्रोतुं नाहं क्षमस्तराः। भगिन्या सहितो मुक्त्यै करिष्यामि तपोऽनघम् ॥१०॥ भोगा नरकपंथानो भोगाः सर्पोपमाश्चलाः। ... धर्मध्वंसकरा भोगा भोगा दुर्गतिदायिनः ॥१०॥ विश्वदुःखाकरीभूता इहामुत्राहिताश्च ये। एवंविधांश्च जानस्तानाश्रयामि कथं खलान् ॥११०॥ दीपहस्तेन किं साध्य कूपे स्यात्पतनं यदि। . श्रुत्वैतद्वचनं श्रेष्ठो मां प्रत्याह मुशास्त्रवित् ॥११॥ तपो जिघृक्षता राज्ञा राज्यपट्टोऽत्र बध्यते। बृहत्पुत्रस्य चेतावदेषमार्गः पुरातनः ॥११२॥ यतो नृपादृतेऽभावो मंत्र्यादोनां प्रजायते। तदभावात्प्रजाभावः प्रजाभावान्न योगिनः॥११३॥ गुर्वभावावृषाभावो वृषाभावेऽगिनोऽसुखम्। तं नाशाय प्रणीतोऽयं क्षात्रो धर्मो विवेकिभिः ॥११॥ ततो महामतेऽत्रैव राज्यपट्टमिम पितुः । अहानि कानिचित्पश्चाद्यदिष्टं तत्करिष्यसि ॥११५।। तदाग्रहान्मया पित्रोरेवमस्त्विति जल्पितम्। ध्वात्वा स्वहृदयेऽवश्यं करिष्यामि तपोऽनघम् ॥११॥ ततो राज्ञा ममालोके राजपट्टो महोत्सवः। दत्वाशिषः स्वयं बद्धः सामंतादिकसन्निधौ ॥११॥ ततो योगिक्रमो नत्वा हित्वा स्वामखिलां श्रियम्। जरतृणमिवाशु ह्यग्रहोद्दीक्षां जगन्नुताम् ॥११॥