________________
पञ्चमः सर्गः मत्प्राक् पापोदयान्माता शुष्कदुग्धकुचाऽभवत्। तरां संतापितोऽतोऽहं हृदुत्पन्नाधाग्निना ॥३५।। ततोऽहीनहमुद्युक्तोन्विष्यान्विष्यात्तुमादरात् । तेनाहि भक्षिणो नागा वृद्धि कायोऽपि मे दृढः ॥३६॥ अथ श्वा यो हतो राज्ञा प्राक् सोऽभूभीषणे वने । कृष्णसर्पोऽति रोद्रात्मा तत्र मिथ्याशुभोदयात् ॥३७ ।। सोऽन्यदा च मया दृष्टश्चरता संचरन्वने । गृहीतोऽनुदृढः पुंछे कंठेऽहं पूर्ववच्छना ॥३८॥
खादमानस्ततोऽत्त मां क्रुद्धा वांछति पीडितः। न पुनःःखादितुं शक्तः कटकांचितविग्रहम् ।।३।। अवांतरे समागत्य तरक्षोऽपि कृतश्चन । परिवृत्याघपाकान्मामर्द्धभुक्तभुजंगम् ॥४०॥ त्रोटयित्वा सिराजालमुत्पाद्य चर्म पापधीः। अस्थि संचर्णनं कृत्वाति निस्त्रिशश्चखाद वै ॥४१॥ कुर्वन्नप्यति फूत्कारं तीव्रवेदनाय तया। कुच्छामृतोऽतिदुःखार्ताहं प्राक्कर्मवशीकृतः॥४२॥ • अथ सिप्रा नदी रम्या विशालामलसज्जला। ... विशालशाललग्नास्ति सपद्मासिकतान्विता ॥४३॥ रोहिताख्योऽभवं मत्स्यस्तत्राह पापकृन्महान्। शफरीगर्भसंजातः प्रसूतोऽमृतमातृकः ॥४४॥ वने मुक्त्वाति कष्टेन प्राणान् सर्पोपि पाकतः । नद्यां तत्राभवद् दुःखी शिशुमारोऽतिदारुणः ॥४५॥ .. अथान्यदाप्यहं तेन गृहीतो मीनकांक्षिणा। . वैराद्धदांतरादेत्य स्वपुच्छे प्राग्मयैव सः ॥४६॥ .
१. सर्प इत्यर्थः ।