________________
३०
यशोधरचरित्रम्
मामालोक्य मत्पुत्रेण दीव्यताक्षं स्ततोऽशुभात् । श्वानं तं प्रत्यवाचीति त्राहि त्राहि शिखी बलम् ||२३||
ततो बलाच्छुना ते कृत्वा शृंखलखंडनम् । गृहीतोऽहं गले तीक्ष्णं दंष्ट्रय शर्मपूरितः ॥ २४ ॥ राज्ञा निर्दयचित्तेन सोपि केशायिना हतः । श्वाप्रहाराकुलोभूय पपात धरणीतले ॥२५॥ मामर्द्धचवितं 'मुक्त्वा गतासुः सहसा तदा । इति तेन शठाग्रेण स्वपित्रोर्मरणं कृतम् ||२६|| तथावां पतितो दृष्ट्वा महीपः शोकतत्परः । रोदनं विदधे मूढमानसः पूर्ववच्चिरम् ||२७|| ततोऽवादीन्महीशः पुरोहितादीन् प्रति स्वयम् । पितराविव संस्कार्यतामिमौ शिखिमंडलो ॥२८॥ एतयोः सर्गसंसिद्ध यै प्रापयध्वं सुरापगाम् । अस्थोनि गोसुवर्णादिं ब्राह्मणेभ्यः प्रदीयताम् ||२६|| विहितो ह्य ेष संस्कारः सर्वस्तैर्मत्सुखाप्तये । तथापि न मया किंचित्प्राप्तं प्राप्ता च दुर्गतिः ॥ ३० ॥ मृतस्वजनतृप्त्यर्थं कुर्युर्दानानि ये शठाः ।
वृथा देवसंतृप्त्यै यज॑ते भस्मसंचयम् ॥ ३१ ॥ अहो कर्मगुरुत्वं मेऽचेतनं' पक्षिघातंजम् ।' एवं चितयतः कृच्छात्प्राणैर्मुक्तं वपुर्मम ||३२|| सुवेलाख्य नदीतीरे अथ भीमाभिधं वनम् । व्याघ्रादिरौद्रसत्वंश्च भीषणं तीक्ष्ण कंटकैः ॥ ३३॥ तत्राहं जनितो जाया' जाहकेनाशुभोदयात् । अपूर्णसमयेऽतीव कष्टेनात्यंतदुःखभाक् ॥ ३४ ॥
१. मयूर इत्यर्थः । २. सेहल्या इत्यर्थः ।
३. यशोमतिना इत्यर्थः ।