SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरिते - बंजिअ-सत्ती सत्ती-अणजिओ सत्ति-वंझ-जण-वञ्झो । लुटाय-लुण्टणो संठे सण्ठो जत्थ निव-लोओ ॥ १८ ॥ उदंड-बाहु-दण्डा-जस्सि कुंढासहा सयमकुण्ढा । . कंतंगा कन्त-गुणा नय-पंथे पन्थिआ पुरिसा ॥ १९ ॥ मित्रादि वश्चयते विप्रतार्यते । नापि च अवाञ्छनीयम् अनभिलंषणीयं . परद्रव्यपरदारादि वाच्यते अभिलष्यते सदाचारनिरतत्वात् केनापि यस्मिन् ॥ १८. व्यञ्जिता प्रोद्धरकन्धररणकण्डूलदोर्दण्डप्रचण्डशात्रवत्रासने प्रकटिता शक्तिः स्वसामर्थ्य येन । शक्त्या अनञ्जितः अगतशक्तिः । । शक्तिवन्ध्यजनवन्ध्यः। पराक्रमवति अभियुक्तः । लुण्टाके चोरे लुण्टनो मोषकः । शठे मायाविनि शठश्छद्मपरः । मीतिमतां हि राज्ञां तथाविधेषु प्रतिकूलाचरणं न दोषाय । यदाह भारविः । .. ब्रजन्ति ते मूढधियः पराभवं. भवन्ति मायाविषु ये न मायिनः । । प्रविश्य दिनन्ति शठास्तथाविधान् । असंवृताङ्गान् निशिता इवेषवः ॥ यत्र नृपलोको राजानः ॥ ... १९. उद्दण्डौ शात्रवत्रासकृत्त्वेन प्रचण्डौ बाहुदण्डौ येषाम् । कुण्ठाः क्रियासु मन्दाः तान् न सहन्ते न क्षमन्ते इति कुण्ठासहाः । स्वयम् आत्मना च अकुण्ठाः देवार्चनादिक्रियासु अमन्दाः । कान्ताङ्गाः मनोज्ञहस्तपादाद्यवयवाः । कान्ता मनोज्ञा विश्वेन वाञ्छिता वा गुणाः शौयौंदार्यस्थैर्यगाम्भीर्यादयो येषाम् । नयपथे न्यायमार्गे पान्थाः पथिकाः पुरुषा यत्र ॥ . १ BC omit प्रकटिता. २ BC विश्वविश्वेन.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy