________________
॥ अहं ॥ .इदितो वा ॥१॥ सूत्रे ये इदितो धातवो वक्ष्यन्ते तेषां ये आदेशास्ते विकल्पेन भवन्तीति वेदितव्यम् । तत्रैव चोदाहरिष्यते ॥ कथेवजर-पजरोप्पाल-पिसुण-संघ-बोल्ल-चव-जम्प-सीस
साहाः ॥२॥ कथेर्धातोर्वजरादयो दशादेशा वा भवन्ति ॥ वजरइ । पजरइ । उप्पालइ । पिसुणइ । संघइ । बोल्लइ । चवइ । जम्पइ । सीसइ । साहइ ॥ उब्बुक्कइ इति तूत्पूर्वस्य बुक्क भाषणे इत्यस्य । पक्षे । कहइ॥ एते चान्यैर्देशीषु पठिता अपि अस्माभिर्घात्वादेशीकृता विविधेषु प्रत्ययेषु प्रतिष्ठन्तामिति ॥ तथा च । वरिओ कथितः । वज्जरिऊण कथयित्वा । वज्जरणं कथनम् । वज्जरन्तो कथयन् । वज्जरिअव्वं कथयितव्यमिति रूपसहस्राणि सिध्यन्ति । संस्कृतधातुवच्च प्रत्ययलोपागमादिविधिः ॥ - दुःखे णिव्वरः ॥३॥ दुःखविषयस्य कथेणिव्वर इत्यादेशो वा भवति ॥ णिवरइ । दुःखं कथयतीत्यर्थः ॥ __ जुगुप्सेझुण-दुगुच्छ-दुगुञ्छाः ॥ ४ ॥ जुगुप्सेरेते त्रय आदेशा वा भवन्ति ॥ झुणइ । दुगुच्छइ । दुगुञ्छइ । पक्षे । जुगुच्छइ ।। गलोपे । दुउच्छइ । दुउञ्छइ । जुउच्छइ ।।
१ B तत्रैवोदाहियते. २ B °शा भ'. ३ B भषणे. ४ B °तिष्ठिता इ. ५ B णिचर'. ६ B जुगुत्सइ. 85 [ कुमारपालचरित]