________________
५२३
३.८१1. प्राकृतव्याकरणम् । . णोम्-शस्टा-भिसि ॥ ७७॥ इदमः स्थाने अम्शस्टाभिस्सु परेषु ण आदेशो वा भवति ॥ गं पेच्छ । णे पेच्छ । णेण । णेहि कयं । पक्षे । इमं । इमे । इमेण । इमेहि ॥
'अमेणम् ॥ ७८॥ इदमोमा सहितस्य स्थाने इणम् इत्यादेशो वा भवति ॥ इणं पेच्छ । पक्षे । इमं ॥
क्लीबे स्यमेदमिणमो च ॥ ७९ ॥ नपुंसकलिङ्गे वर्तमानस्येदमः स्यम्भ्यां सहितस्य इदम् इणमो इणम् च नित्यमादेशा भवन्ति ॥ इदं इणमो इणं धणं चिट्ठइ पेच्छ वा ॥
किमः किं ॥ ८०॥ . किमः क्लीबे वर्तमानस्य स्यम्भ्यां सह किं भवति ॥ किं कुलं तुह । किं किं ते पडिहाई॥
वेद-तदेतदो ङसाम्भ्यां से-सिमौ ॥ ८१ ॥ इदम् तद् एतद् इत्येतेषां स्थाने ङस् आम् इत्येताभ्यां सह यथासंख्यं से सिम् इत्यादेशौ वा भवतः ॥ इदम् । से सीलम् । से गुणा । • अस्य शीलं गुणा वेत्यर्थः ।। सिं उच्छाहो । एषाम् उत्साह इत्यर्थः । तद् । से सीलं । तस्य तस्या वेत्यर्थः ॥ सिं गुणा । तेषां तासां वेत्यर्थः ॥ एतद् । से अहिअं। एतस्याहितमित्यर्थः ॥ सिं गुणा । सिं सीलं । एतेषां गुणाः शीलं वेत्यर्थः । पक्षे । इमस्स । इमेसिं । इमाण ॥ तस्स । तेसिं । ताण ।। एअस्स । एएसिं । एआण । इदंतदोरामापि सेआदेशं कैश्चिदिच्छति ।।
. १ PB णेहिं. २ B इमेहिं. २ A °हाअइ. ४ B शीलं. ५ B केचिदिच्छंति.