________________
५२१
३.७० ] ..
प्राकृतव्याकरणम् ।
ङेर्डा डाला इआ काले ॥ ६५ ॥
किंयत्तद्भ्यः कालेभिधेये ङे: स्थाने आहे आला इति डितौ इआ इति च आदेशा वा भवन्ति । हिंस्सिम्मित्थानामपवादः । पक्षे तेपि भवन्ति ॥ काहे । काला । कइआ ॥ जाहे । जाला । जइआ ॥ ताहे । ताला । तइआ ॥
ताला जातिगुणा जाला ते सहिअएहिं घेप्पन्ति ।
पक्षे । कहिं । कस्सि । कम्मि । कत्थ ॥
ङसेम्ह ॥ ६६ ॥
किंयत्तद्भूयः परस्य ङसेः स्थाने म्हा इत्यादेशो वा भवति ।। कम्हा | जम्हा । तम्हा | पक्षे । काओ । जाओ । ताओ ॥
तदो डोः ॥ ६७ ॥
तदः परस्य ङसेर्डो इत्यादेशो वा भवति ।। तो । तम्हा ॥
किमो डिणो-डीसौ ॥ ६८ ॥
किमः परस्य ङसेर्डिंणो डीस इत्यादेशौ वा भवतः ॥ किणो । की | कहा ॥
इदमेतत्किं यत्तद्भ्यष्टो डिणा ॥ ६९ ॥
एभ्यः सर्वादिभ्योकारान्तेभ्यः परस्याष्टायाः स्थाने डित् इणा इत्यादेशो वा भवति ॥ इमिणा । इमेण || एदिणा । एदेण ॥ किणा । केण ॥ जिणा । जेण ॥ तिणा । तेण ॥
तदो णः स्यादौ क्वचित् ॥ ७० ॥
तदः स्थाने स्यादौ परे ण आदेशो भवति क्वचित् लक्ष्यानुसारेण ॥ णं पेच्छ । तं पश्येत्यर्थः ॥ सोअइ अ णं हुवई । तमित्यर्थः । स्त्रियामपि । हत्थुन्नामिअ- मुही णं तिअडा । तां त्रिजटेत्यर्थः ॥ णेण
१ B °न्ति ॥ रवि-किरणाणुग्गहिआई हुन्ति कमलाई कमलाई ॥ प° २ A कीसा ३. A एभ्योऽकारांतेभ्यः परस्याः सर्वादेष्टा° ४ A °त्यर्थः । णेण .