________________
५२०
हेमचन्द्राचार्यविरचितं ... [३.६१सव्वत्थ । इत्यादि ॥ स्त्रियां तु पक्षे । काए। कीए । जाए। जीए । ' ताए । तीए ॥ इदमेतद्वर्जनं किम् । इमस्सि । एअस्सि ॥
आमो डैसिं ॥ ६१ ॥ सर्वदेरकारान्तात्परस्यामो डेसिमित्यादेशो वा भवति ॥ सव्वेसि । अन्नसिं । अवरेसिं । इमेसिं । एएसिं । जेसिं । तेसिं । कोसं । पक्षे । सव्वाण । अन्नाण । अवराण । इमाण । एआण । जाण । ताण । काण ।। बाहुलकात् स्त्रियामपि । सर्वासाम् । सव्वेसिं ॥ एवम् अन्नेसिं । तेसिं ॥
किंतयां डासः ॥ ६२ ॥ किंतद्भ्यां परस्यामः स्थाने डास इत्यादेशो वा भवति ॥ कास । तास । पक्षे । केसिं । तेसिं ॥
किंयत्तद्भयो ङसः ॥ ६३॥ .. एभ्यः परस्य ङसः स्थाने डास इत्यादेशो वा भवति । सः स्सः [३.१०] इत्यस्यापवादः । पक्ष सोपि भवति ॥ कास । कस्स । जास। जस्स । तास । तस्स । बहुलाधिकारात् किंतद्भयामाकारान्ताभ्यामपि डासादेशो वा । कस्या धनम् । कास धणं ॥ तस्या धनम् । तास धणं । पक्षे । काए । ताए ।
ईद्भयः स्सा से ॥ ६४ ॥ किमादिभ्य ईदन्तेभ्यः परस्य डसः स्थाने स्सा से ईत्यादेशौ वा भवतः । टा-ङस्-डेरदादिदेवा तु ङसेः [३. २९] इत्यस्यापवादः । पक्षे अदादयोपि ॥ किस्सा ! कीसे । कीअ । कीआ। कीइ। कीए ॥ जिस्सा । जीसे । जीअ । जीआ । जीइ । जीए ॥ तिस्सा । तीसे। तीअ । तीआ । तीइ । तीए ।
१ B सव्वत्थ । अन्नास्स । अन्नम्मि । अन्नत्थ इत्यादि. २ B इदमस्सि. ३ B : सिम् . ४ A °रात्प°. ५ B : सि. ६ A °रस्य सर्वादरामः ७ A सेः. 4 PB इत्येतावादे'.