________________
३. ३३] ..
प्राकृतव्याकरणम् ।
५१३
घेणूइ । धेणू ॥ वहूअ । वहूआ । वहूइ । वहूए आगओ | पक्षे ॥ मुद्धाओ । मुद्धाउ । मुद्धाहिन्तो ॥ रईओ । रई । रईहिन्तो ॥ ओ । घेउ । घेणूहिन्तो । इत्यादि ॥ शेषेदन्तवत् [ ३.१२४] अतिदेशात् जस् शस्- ङसि -तो- दो- द्वामि दीर्घः [ ३.१२ ] इति दीर्घत्वं पक्षेपि' भवति ॥ स्त्रियामित्येव । वच्छेण । वच्छस्स । वच्छमि । वच्छाओ || टादीनामिति किम् । मुद्धा | बुद्धी | सही | णू | बहू |
नात आत् ॥ ३० ॥
परेषां
स्त्रियां वर्तमानादादन्तान्नाम्नः टाङङिङसीनामादादेशो न भवति ॥ मालाअ । मालाइ । मालाए कयं सुहं ठिअं आगओ वा ॥
प्रत्यये डीन वा ॥ ३१ ॥
अणादिसूत्रेण [ हे० २.४ ] प्रत्ययनिमित्तो यो ङीरुक्तः स स्त्रिय' वर्तमानान्नाम्नो वा भवति ॥ साहणी । कुरुचरी । पक्षे । आत् [हे० २.४] इत्याप् । साहणा । कुरुचरा ।।
अजातेः पुंसः ॥ ३२ ॥
अजातिवाचिनः पुल्लिङ्गाद् स्त्रियां वर्तमानात् ङीर्वा भवति ॥ नीली नीला | काली काला । हसमाणी हसमाणा । सुप्पणही सुप्पणहा | इमीए इमाए । इमीणं इमाणं । एईए एआए । एईणं एआणं ॥ अजातेरिति किम् । करिणी । अया । एलया । अप्राप्ते विभाषेयम् । तेन गोरी कुमारी इत्यादौ संस्कृतवन्नित्यमेव ङीः ॥
किं-यत्तदोस्यममि ॥ ३३ ॥
सिअम आम्वर्जिते स्यादौ परे एभ्यः स्त्रियां ङीर्वा भवति ॥ कीओ। काँओ । कीए । काए । की । कासु । एवं। जीओ । जाओ । तीओ । ताओ । इत्यादि । अस्यमामीति किम् । का ।
1
1
जा । सौं । कं । जं । तं । काण । जाण । ताण ॥
1
१ B°क्षे भ° २ A इमाणं । अजा° ३ B प्राप्तवि° ४ B डी. ५ B ● मिसि ॥ ३३ ॥ अम्. ६ P°उ. ७ B ता. 33 [ कुमारपालचरित ]