________________
२.३० ] प्राकृतव्याकरणम् ।
४७५ . साध्वस-ध्य-ह्यां झः ॥ २६ ॥
साध्वसे संयुक्तस्य ध्यह्ययोश्च झो भवति ॥ सज्झसं ॥ ध्य । वज्झए । झाणं । उवज्झाओ । सज्झाओ । सज्झं । विझो ॥ ह्य । सज्झो । मैझं ॥ गुज्झं । णज्झइ ॥
ध्वजे वा ॥ २७ ॥ ध्वजशब्दे संयुक्तस्य झो वा भवति ॥ झओ धओ ॥
इन्धौ झा ॥ २८ ॥ इन्धौ धातौ संयुक्तस्य झा इत्यादेशो भवति ॥ समिज्झाइ । विज्झाइ ॥ . वृत्त-प्रवृत्त-मृत्तिका-पत्तन-कदर्थिते टः ॥२९॥ एषु संयुक्तस्य टो भवति ॥ वट्टो । पयट्टो । मट्टिआ । पट्टणं । कवट्टिओ ॥ . .
तस्याधूर्तादौ ॥३०॥ तस्य टो भवति धूर्तादीन् वर्जयित्वा ।। केवट्टो । बट्टी । जट्टो । पयदृइ ।। वट्ठलं । रायवट्टयं । नट्टई । संवट्टिअं ॥ अधूर्तादाविति किम् । धुत्तो। कित्ती । वत्ता । आवत्तणं । निवत्तणं । पवत्तणं । संवत्तणं । आवत्तओ । निवत्तओ । निव्वत्तओ । पवत्तओ । संवत्तओ । वत्तिआ । वत्तिओ । कत्तिओ। उक्कत्तिओ । कत्तरी । मुत्ती । मुत्तो । मुहुत्तो ।। बहुलाधिकाराद् वट्टा ॥ धूर्त । कीर्ति । वार्ता । आवर्तन । निवर्तन । प्रवर्तन । संवर्तन । आवर्तक । निवर्तक । निवर्तक । प्रवर्तक । संवर्तक । वर्तिी । वार्तिक । कार्तिक । उत्कर्तित । कर्तरी । मूर्ति । मूर्त । मुहूर्त । इत्यादि ॥
१B बज्झए. २ B संज्झं. ३ A मज्झो. ४ B शो वा भ'. ५.B पवट्रो, ६ B°ओ। प°. ७ A कित्तिओ। उकित्तिओ. ८ Bधत. ९ B तक । प्रव. 1. B वर्तिक. ११ A उत्कीर्ति :- १२ A मुहूर्तः ॥