________________
कुमारपालचरिते . . वैरिवारबलस्य अगणितगुणगणतारतारकद्युतिद्योतितदिङमण्डलस्य प्रसरत्कीर्तिचन्द्रिकाधवलितनभस्तलस्य दीनानाथजन्तुजातविघातरक्षणक्षमबलस्य परोपकारकरणवणशीलस्य (°व्रत ?) नानाप्रकारभाक्तिप्राग्भारवन्दारुचतुःसमुद्रवसुंधराधिपकोटाकोटिकिरीटकोटिकान्तिपिञ्जरितचरणयुगलस्य चौलुक्यवंशमुक्ताफलस्य परमार्हतश्रीकुमारपालभूपालस्य संस्कृतघ्याश्रयप्रतिपादितावशेषं प्राकृतलक्ष्यै रुचिरं चरितं वक्तुकामः साहित्यव्याकरणाद्यनेकशास्त्रनिर्माणाप्रेत्नप्रजापतिः श्रीहेमचन्द्रयतिपतिः प्राकृतढ्याश्रयं महाकाव्यं चकार ॥ अथ व्याश्रय इति कः शब्दार्थः । उच्यते । द्वयोः महाकाव्यलक्षणशब्दलक्षणयोराश्रयो व्याश्रयः । एवं तर्हि सर्वमहाकाव्यानां व्याश्रयत्वप्रसङ्गः । न हि तत्र कापि महाकाव्यलक्षणशब्दलक्षणे न स्तः । इति चेत् न । अत्र हि " यथापा प्रायः " इत्यादि महाकाव्यलक्षणमस्ति । तथा व्याकरणाष्टमाध्यायोक्त" अथ प्राकृतम् "-इत्यादिसर्वसूत्रानुक्रमन्यस्तमूलोदाहरणव्यावृत्त्युदाहरणप्रस्तावायातमतान्तरोदाहरणप्रतिपादनेन सकलं प्राकृतलक्षणमपि । न चैवमन्यत्रेति नातिप्रसङ्गः ।।
१ B परोपकारणवणशीलस्य. २ C प्रयत्न.