________________
श्रीः ॥
ओं नमः श्रीजिनेश्वरपादपद्मेभ्यः ||
पुण्याङ्कराः शिवसुखफलं श्रोतृजन्तून् नु नेतुं तैरग्रेऽस्ताः किमुत . लिखितुं मङ्गलान्यष्ट लाजाः । यस्यन्ते सदसि दशनाभीशवो देशनायां स श्रीचन्द्रप्रभजिनपतिः प्रातिभं नस्तनोतु ॥ १ ॥ अधोविहितदुर्गतिं प्रकटदिव्यगोत्रोद्गतं वृतं सुमनसां भरैः प्रियतरामृतोद्यत्फलम् । सुराजितशुभश्रियं भुवनसन्तमामोदकं जिनेश्वरमभिष्टुवे गुरुमभीष्टकल्पदुमम् ।। २ ।।
यत्पार्श्वे याचितुं किं किमपि शशिरवी कुण्डलद्वन्द्वदम्भाद् भेत्तुं दारिद्र्यवृत्तेः स्रुतिमति युगपद् दीप्रचक्रे नु भातः । सद्वीणापुस्तमुक्ताक्षवलयकमलातुल्यहस्ताब्जलक्ष्मीवाग्देवी सा सुधाभा मम मनसि सदा स्तात् प्रकृत्य प्रसादम् ॥ ३ ॥
यः प्राकृतव्याकरणं नु शब्दैः साहित्यसर्वस्वमिवार्थभङ्गया । सं द्व्याश्रयः काव्यमनल्पबुद्धिज्ञेयः कथं मादृश एव गम्यः ॥ ४ ॥
अभीष्टकल्पद्रुगुरुप्रसादप्रादुर्भवत्प्रातिभवैभवोद्दम् ।
स्वान्यावबोधाय तथापि किंचिद् यत्नं विधास्ये विवरीतुमेनम् ॥ ५ ॥
इह हि सदिङ्नागनागपतिकूर्मकुलाचलाचलाभाराङ्गीकार व्यावृत्तदोर्दण्डकलिताकर्णाकृष्टकाण्डलितमचण्डकोदण्डटङ्काराडम्बरत्रासितदुर्धर -