________________
१.२३६ 1. प्राकृतव्याकरणम्। , पो कः॥२३१॥ स्वरात्परस्यासंयुक्तस्यानादेः पस्य प्रायो वो भवति ॥ सवहो । सावो । उवसग्गो । पैईवो । कासवो । पावं । उवमा । कविलं । कुणवं । कलावो । कवालं । महि-वालो । गो-वइ । तवइ । स्वरादित्येव । कम्पइ ।। असंयुक्तस्येत्येव । अप्पमत्तो ॥ अनादेरित्येव । सुहेण पढइ ॥ प्राय इत्येव । कई । रिऊ ॥ एतेन पकारस्य प्राप्तयोर्लोपवकारयोर्यस्मिन् कृते श्रुतिसुखमुत्पद्यते स तत्र कार्यः ।।
पाटि-परुष-परिघ-परिखा-पनस-पारिभद्रे फः॥२३२ ॥ ण्यन्ते पैटिधातौ परुषादिषु च पस्य फो भवति ॥ फालेइ फाडेइ । फरुसो । फलिहो । फलिहा । फणसो । फालिहद्दो ॥
प्रभूते वः ॥२३३॥ प्रभूते पस्य वो भवति । वहुत्तं ॥
नीपापीडे मो वा ॥ २३४॥ अनयोः पस्य मो वा भवति ॥ नीमो नीवो । आमेलो आमेडो । - पापद्धौं रः ॥ २३५॥ पापर्द्धावपदादौ पकारस्य रो भवति ॥ पारद्धी ॥ - फो भ-हौ ॥ २३६॥ स्वरात्परस्यासंयुक्तस्यानादेः फस्य भहौ भवतः ॥ कचिद् भः । रेफः । रेभो ॥ शिौ । सिभा ॥ कचित्तु हः । मुत्ताहलं ॥ कचिदुमावपि । सभलं सहलं । सेभालिआ सेहालिआ । सभरी सहरी । गुभइ गुहइ ।। स्वरादित्येव । गुंफह ॥ असंयुक्तस्येत्येव । पुप्फ ॥ अनादेरित्येव । चिट्ठइ फणी ॥ प्राय इत्येव । कसण-फणी ।।
१ B परस्य. २ P °वो । पावं. ३ P पाटि°. ४ B सिफा. 30 [ कुमारपालचरित]