________________
२६०
कुमारपालचरिते हीमाणहे देवि तुमं सि दिट्ठा हीमाणहे हं चकिदो भवादो। .
णंअम्महे किं पिभणोवएसं हीही भणन्ता वि समन्ति जेण ॥ मृपो भणितः विज्ञपयितुम् आरब्धवान् । तथा तवैव प्रसादात् सुर्यो देव्यः हले त्ति चेटिका इति भण्यन्ते चेटिकावद् आहूयन्त इत्यर्थः ॥
जुत्तमिमं जुत्तं णिमं । किं णेदं किमेदं । "मोन्त्याण्णो वेदेतोः "[२७९] ॥ तुज्झ य्येव । " एवार्थे य्येव" [ २८० ] ॥ हले त्ति । “हले चेट्याह्वाने " [ २८१]॥ .
१०२. हीमाणहे इति आश्चर्ये । देवि श्रुतदेवते त्वं दृष्ठा विलोकिता असि भवसि । हीमाणहे इति निर्वेदे । अतः निर्विण्णत्वाद् अहं भवात् चकितस्त्रस्तः। णमिति नन्वर्थे । अम्महे इति हर्षे । सतः हे भगवति ननु सहर्ष कमपि कंचन उपदेशं भण आदिश । येन उपदेशेन कृत्वा । हीहीति विदूषकाणां हर्षद्योबने । ततो हीही भणन्तः हर्षेण हीहीशब्दं कुर्वन्तः निरन्तरं हसनशीला विदूषका अपीत्यर्थः । शाम्यन्ति उपशमिनो भवन्ति । भण उपदेशम् इत्यनेन उत्तरसर्गार्थसूचनम् । इन्द्रवज्रा छन्दः ॥
हीमाणहे । हीमाणहे । " हीमाणहे विस्मय-निर्वेदे" [२८२] ।। णं । “णं नन्वर्थे ' [ २८३.] ॥ अम्महे । “ अम्महे हर्षे ” [२८४ ] ॥ हीही ॥ " हीही विदूषकस्य ” [ २८५] ॥
" शेषं प्राकृतवत् " [ २८६ ] । शौरसेन्यां यत् कार्यम् उक्तं ततोन्यत् प्राकृतवदिति । अतः जेणेति " टा-आमोणः " [३.६ ] " टा-ण-शस्येत् " [ ३.१४ ] च प्रवर्तते ॥
[इति ] शौरसेनी भाषा समाप्ता ॥ इत्याचार्यश्रीहेमचन्द्रविरंचितश्रीकुमारपालचरितप्राकृतद्याश्रय
महाकाव्यवृत्तौ सप्तमः सर्गः समाप्तः ॥ १ BD किं वि. २ C भणोपदेसं. ३ BD आश्चर्य. ४ D हे देवि. ५ BC 'वदिति; D °वदेव. ६ BCD टामोर्णः,