________________
[ है० ८.४.२५६] सप्तमः सर्गः । वाहिप्पन्ताढप्पन्त-मङ्गले गिण्हणिज्ज-अभिहाणा। . आढविअ-थुईहि सया सिप्पन्ती भत्ति-धिप्पन्ती ॥९० ॥ सुर-बहु-छिप्पन्त-पया छिविजमाणा थुईहि सुअ-देवी । पसमाप्फुण्णस्स निवोकुसस्स अह आसि पच्चक्खा ॥९१॥
९० व्याह्रियमाणं नैमित्तिकादिना भण्यमानम् आरभ्यमाणं बन्ध्वादिना क्रियमाणं च यन्मङ्गलं शुभकार्य तस्मिन् गृह्यमाणाभिधाना त्वत्प्रसादानिर्विघ्नं भवत्विति उत्कीर्त्यमाननामा । आरब्धस्तुतिभिः भक्तजनकृतस्तवनैः कृत्वा सदा स्निह्यमाना स्निहेरन्तर्भूतण्यर्थत्वात् स्नेहवती क्रियमाणा । सिच्यमाना स्तावकेन आत्मनि आर्द्रहृदया क्रियमाणा । भक्त्या गृह्यमाणा आत्मसात् क्रियमाणा । न दुराराधेत्यर्थः॥ ....
९१. सुरवधूभिः स्पृश्यमानौ प्रणामावसरे भालेन घृष्यमाणौ पादौ यस्याः सा। तथा स्तुतिभिः कविस्तोत्रैश्च स्पृश्यमाना विषयीक्रियमाणा।।
. . कीरन्तीइ । अहीरन्तीइ । हरिजन्ती । करिजमाणा । तीरन्ते । अजरिजन्त । जीरन्त । पतरिजन्त । " ह-कृ-तृ-जामीरः " [ २५० ] ॥ ..
विढप्पइ विढविजइ अजिजइ । “ अर्जेविढप्पः " [ २५१] ॥
णव्वइ । अणजमाणा । अमुणिजन्त । " शो णव्व-णजौ" [२५२ ] ॥ ... वाहरिजन्ती वाहिप्पन्त । " व्याहगेर्वाहिप्पः " [ २५३ ॥
आढप्पन्त आढविअ । “ आरभेराढप्पः " [ २५४ ] ॥ सिप्पन्ती । " स्नेह-सिचोः सिप्पः " [२५५ ] ॥ गेण्हणिज घेप्पन्ती । “ अहेर्धेप्पः" [ २५६ ] ॥
१ B°पुण्णस्स; C °पुणस्स. २ B क्सस्स. ३ B हासि. ४ BCD °दादनिर्वि'. ५ BC °तेनर्थत्वा for °तण्यर्थत्वा . ६ C स्तव.