________________
[है ० ८.४.२१३] सप्तमः सर्गः ।
भोत्तूणं भोत्तव्वं भोत्तुं निव्वुइ-सुहाइँ मोत्तु-मणा । मोत्तव्वारम्भं मोत्तूण महन्ता तवस्सन्ति ॥५१॥ सोअ-वसा रोत्तूण वि रोत्तु-मणा विम्हरन्ति रोत्तव्यं । दद्ण जाण मुत्तिं अरहन्ताणं नमो ताणं ॥५२॥ जे दट्ठव्वे दडे इन्दो काहीअ लोअण-सहस्सं । दंसण-तत्तिं काउं अरहन्ताणं नमो ताणं ॥ ५३ ॥
५१. भोक्तव्यं शुभाशुभम् अनुभवनीयं भुक्त्वा संवेद्य । निर्वृतिसुखानि भोक्तुं संवेदयितुम् । मोक्तव्यारम्भं हेयव्यापारं मुक्त्वा परित्यज्य । मोक्तुमनसो निर्वरीतुकामा महान्तः महामुनयस्तपस्यन्ति । बाह्याभ्यन्तरभेदभिन्नं द्वादशविधं तपः कुर्वन्ति ॥
५२. शोकवशात् स्वबन्धुवियोगसमुद्भवदुःखपरतन्त्रत्वाद् रुदित्वापि रोदनं कृत्वापि रोदितुमनसः रोदनपरायणचेतसः प्राणिनः येषां मूर्तिं वपुदृष्टा रोदितव्यं विपन्नस्वबान्धवादिकं विस्मरन्ति न स्मृतिपथम् आनयन्ति तेभ्योऽर्हद्भयो नमः नमस्कारोस्तु ॥ .
भोत्तूणं । भोत्तव्वं । भोत्तुं । मोत्तु। मोत्तव्वा । मोत्तूण । रोत्तूण । रोत्तु। रोत्तव्वं । " रुद-भुज-मुचा तोन्त्यस्य " [ २१२ ] ॥
.५३. यान् द्रष्टव्यान् लोकातीतसौभाग्यादियुक्तत्वाद् वीक्षणीयान् द्रष्टुं दर्शनाय लोचनसहस्रम् इन्द्रः अकरोत् अकार्षीत् चकार वा । दर्शनमपि किमर्थम् इत्याह । दर्शनेन निर्निमेषवीक्षणेन तृप्तिम् आत्मनः संतोषं कर्तुम् । तेभ्योर्हद्भ्यो नमः ।। दद्रूण । टुट्वे । दटुं । " दृशस्तेन टुः" [ २१३ ] ॥
16 [ कुमारपालचरित ]