________________
[ है ० ८.४,१८१ ]
सप्तमः सर्गः ।
२३१
अवयच्छन्तो व जो नोअक्खड़ कामिणि अवक्खन्तो । न गुरुं चजइ नन्नं पासइ जं तीइ पासत्थो ॥ २५ ॥ असरीरिणमवअक्खड़ अवआसइ सील - जाइ - रहिअं पि । अवयज्झिऊण तं पि हु जो इस्थि छिवह तस्स नमो ||२६||
२५. कामिनीं पश्यन् सस्पृहं वीक्षमाणो जनः पश्यन्नपि यकृच्छकृन्मलश्लेष्ममज्जास्थिपरिपूरिताः ।
स्नायुस्यूता बहीरम्याः स्त्रियश्चर्मप्रसेविकाः ॥
इत्यादिकामिनीस्वरूपं जानन्नपि न पश्यति न मनस्यवधारयति । यस्मात् तस्याः कामिन्याः पार्श्वस्थः संभोगाय समीपवर्ती न गुरुं पश्यति । नान्यं मातापित्रादिकं पश्यति । तदेकतानो न गुर्वादिकं गुरुत्वादिना मन्यत इत्यर्थः । यदुक्तम्
न देवान् न गुरून् नापि
इत्यादि ॥
२६. अशरीरिणं गैलिताङ्गोपाङ्गं पश्यति सानुरागदृष्ट्या विलोकते । शीलजातिरहितमपि पश्यति । तदपि एवंविधमपि योषिदसच्चेष्टितम् हु इति निःसंदेहम् दृष्ट्व यः स्त्रियं स्पृशति आलिङ्गति तस्मै नमः । उप`हासपरोयं नमस्कारः । तेन निर्विवेकचूडामणेस्तस्य धिक्कारोस्त्वित्यर्थः ॥
पिच्छिरो । निअइ । पुलअणा । दक्खणा । सच्चवणा । निअच्छिअ । लोह | अवयच्छन्तो । अक्खइ । अवक्खन्तो । चज्जइ । पासइ । अवअक्खइ । अवआसइ । अवयज्झिऊण । " दृशो निअच्छ-पेच्छावयच्छावयज्झचज-सच्चव-देक्खोअक्खावक्खावयक्ख- पुलो पुल अनि आवआस-पासाः " [ १८१ ] ॥
१ C अवि. २ BC °क्ष्य ३ C मलि° ४ B drops from विलोकते to दृष्ट्वा. ५ BC अक्खइ. ६ BC° पुलोपुलअ°.