SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ कुमारपालचरिते ओवासइ न विवेओ थी-सङ्गे इअ गुरूहि संदिसि । अप्पाहामो ता तत्त-पिच्छिरो ताउ को निअइ ॥ २३ ॥ जे भावि-पुलेअणा भूअ-देखणा वट्टमाण-सच्चवणा । तेहि निअच्छिअ भणि मा इत्थीओ पुलोएह ॥ २४ ॥ ते नश्यन्ति । संयमः शुभानुष्ठानमपि नश्यति । श्रुतं सिद्धान्तो नश्यति । सत्यं च नश्यति । न किंचिदपि परत्र परित्राणहेतुः शुभं तेषां संभवतीति भावः ॥ नसिअ । णिवहिअ । सेहइ। पडिसन्ति । अवहरइ। णिरणासइ । अवसेहइ । " नशेर्णिरणास-णिवहावसेह-पडिसा-सेहावहराः " [ १७८] ॥ .. २३. स्त्रीसङ्गे योषित्संपर्के विवेकः युक्तायुक्तविचारो नावकाशते नावकाशं लभते इति गुरुभिः अस्मत्पूर्वाचार्यैः संदिष्टम् अस्माकं पुरः प्रतिपादितम् । तस्मात् तत्त्वद्रष्टा विज्ञातपरमार्थः कस्ताः स्त्रीः पश्यतीति वयमपि संदिशामः मुक्त्यर्थिनं प्रतिपादयामः ॥ ओवासइ । “ अवात् काशो वासः” [ १७९] ॥ संदिसिअं । अप्पाहामो । “ संदिशेरप्पाहः" [ १८० ] ॥ .. २४. भाविनो भविष्यदर्थस्य दर्शनाः द्रष्टारः । भूतदर्शनाः अतीतार्थवीक्षकाः । वर्तमानदर्शनाः विद्यमानार्थविलोकयितारः त्रिकाल. वेदिन इत्यर्थः । एतैर्महात्मभिदृष्ट्वा सकलाकुशलकारणं स्त्रिय इति विज्ञाय भणितम् । किम् । स्त्रीर्मा पश्यत । यदि स्वस्य क्षेमम् अभिलषत तदा स्त्रीणां विलोकनमपि मा कुरुतेत्यर्थः ॥ .. १ B पुण°. २ BC दक्खणा. ३ BC °लषत. . .
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy