________________
१८२
कुमारपालचरिते गायन्ता सज्झायं झायन्ता धम्म-झाणमकलकं । जाणन्ता मुणिअव्वं मुणिणो आवस्सए लग्गा ॥६॥ दिण-नाव-उद्धमाओ सद्दहिउं दाह-पसमिणिं जुण्हं । को अमय-पिजणिज्जं अच्छीहि न घोट्टिउं लग्गो ॥७॥ पट्टीअ चन्दिम-रसं चन्दिम-रस-डल्लिरं चओर-कुलं । .... पिअइ म्ह अलि-कुलमणोरुम्मिअ-सेहालिअ-परायं ॥ ८॥
६. स्वाध्यायं गायन्तः मधुरध्वनिना पूर्वपठितस्वाध्यायपरावर्तनं कुर्वन्तः । अकलङ्कम् आर्तरौद्रपरिणामपरिहारान्निर्दोष · धर्मध्यानं शुभाध्यवसायविशेष ध्यायन्तः अभ्यस्यन्तः । ज्ञातव्यं जीवाजीवादि. तत्त्वनवकं बोद्धव्यं जानन्तः अर्हत्प्रणीतप्रकारेण अवगच्छन्तः आवश्यकम् अवश्यकृत्यं सामायिकादिधर्मानुष्ठानं तस्मिन् मुनयः साधवो लग्नाः व्यापृताः ॥
गायन्ता । झायन्ता । " घ्या-गोर्खा-गौ” [६] ॥ जाणन्ता । मुणिअव्वं । " जो जाण-मुणौ" [७] ॥
७. दाहप्रशमिनीं वपुःसंतापनिर्वापजननीम् , अमृतवत् पानीयां पातव्यां ज्योत्स्ना श्रद्धाय निश्चित्य । तापः देदीप्यमानमार्तण्डमण्डलोष्मा। तेन उद्ध्मातः संतापितः सन् कः अक्षिभ्यां कृत्वा न पातुं लग्नः अपि तु सर्वोपि संतापिताङ्गः सन् चन्द्रिकां सतर्षम् ईक्षितुं प्रवृत्त इति भावः ॥
उद्धुमाओ । " उदो ध्मो धुमा [८] ॥ सद्दहिउं । " श्रृंदो धो दहः ॥ [ ९] ॥
८. चन्द्रिकारसं पिबतीत्येवंशीलं चन्द्रिकारसपातृ ज्योत्स्नाद्रवपानशीलं चकोरा ज्योत्स्नाप्रियास्तेषां कुलं निकुरम्बं कर्तृ चन्द्रिका
१ BC °पसमिणं. २ C °शमनीं. ३ D संतप्ताङ्गः, ४ B drops from here upto R: in the next line.