________________
वजर थको सि कहिं पज्जर कत्तो अ एण्हिमाओ सि । .. जम्पसु विम्हरिआ हं सीससु अणुसासणिज्जो सि ॥१॥ साहसु कीए रत्तो बोल्लसु अन्ना वि किं पिआ तुझं । ... सङ्घसु किमहं मुक्का चवसु मए किं कयं विलिअं ॥२॥ पिसुणसु किं जुत्तमिणं उप्पालसु किं चिराउ दिट्ठो सि। इअ भमर-गुञ्जिएहिं ससिणं पुच्छीअ कइरविणी ॥३॥ १. अथैकविंशत्या गाथाभिश्चन्द्रोदयं वर्णयति । त्रिभिर्विशेषकम् । भ्रमराणां गुञ्जितानि झंकाररवास्तैः कृत्वा शशिनम् इति एवम् कैरविणी अपृच्छत् । अत्र उत्प्रेक्षार्थ इवशब्दो ज्ञेयः । ततश्चावार्तयदिव । पृच्छामेवाह । हे प्रिय कथय प्रतिपादय कस्मिन् कुत्र प्रदेशे असि त्वं स्थितः उषितः । कथय कस्माञ्च कुतः प्रदेशाद् इदानीम् आगतोसि । कथय विस्मृता एतावन्तं कालं स्मृतिपथं न गताहम् । येन चिरम् अन्यत्रावस्थितोसीति भावः । एतत् सर्व कथय । येने अनुशासनीयः इयच्चिरम् अन्यत्रावस्थानेन शिक्षणीयोसि ॥
२. कथय कस्यां कान्तायां रक्तः सानुरागः । किं क्षेपे। कथय किम् अन्यापि मव्यतिरिक्तापि तव प्रिया वल्लभा । कथय किम् अहं मुक्ता परित्यक्ता । कथय किं मया व्यलीकम् अपराधः कृतम् ॥
३. कथय किमिदं भवदनुष्ठितं युक्तम् । कथय किं चिरात् प्रभूतकालाद् दृष्टो वीक्षितोसि ॥
१० तुब्भ. २ C यतः.