________________
[है० ८.३.१७५] पञ्चमः सर्गः ।
१७७ होजहिइ इट्ठ-गोट्ठी होजा पिअ-मेलओ दिही होज । होहिइ परमाणन्दो होजाहिइ चित्त-वीसामो ॥ १०३ ॥ होज किलकिंचिअं विवोओ होजाउ विब्भमो होउ । मोट्टाइअं च होजउ होजा ललिअं च अम्हाणं ॥ १०४ ॥ होज न संझा होजा न निसा तिमिरं पि जइ न होमाणं । ता होन्ता कह अम्हे इअ संपइ पंसुलालावो ॥ १०५ ॥ १०३. हे सखि इष्टगोष्ठी प्रेमवैदग्ध्यगर्भपरस्परालापपूर्व प्रियेण सह एकत्र अवस्थानं भविष्यति । प्रियेण सह मेलकः संबन्धः । अन्योन्याश्लेष इत्यर्थः । भविष्यति । धृतिः संतोषो भविष्यति । परमानन्दः हर्षातिरेको भविष्यति । चित्तविश्रामः विपक्षाभावाच्चेतोदायं च भविष्यति ॥
१०४. हले अस्माकं किलकिंचितं भवतु भवेद् वा संपद्यताम् । विव्वोको भवतु । विभ्रमो भवतु । मोट्टायितं भवतु । ललितं च भवतु। किलकिंचितादिलक्षणानि च अमूनि । स्मितहसितरुदितभयरोषदुःखगर्वश्रमाभिलाषसंकरः किलकिंचितम् । इष्टेप्यवज्ञा विव्वोकः । वागङ्गभूषणानां व्यत्यासो विभ्रमः । प्रियकथादौ तद्भावभावनोत्था चेष्टा मोट्टायितम् । मसृणोङ्गन्यासो ललितम् ॥
१०५. हे सखि संध्या यदि नाभविष्यत् निशा यदि नाभविष्यत् तिमिरमपि यदि नाभविष्यत् तदा कथं वयमभविष्याम । अभीष्टमेलकः संध्यादिसद्भाव एवास्माकं जीवितप्रदः संपन्न इति भावः ॥
रमेजसु । रमेजे । रमिजहि । रम। "अत इजस्विजहीजे-लुको वा”[१७५]। पक्षे रमसु ॥
१ BCD किलि°. २ C दृष्टे'. 12 [ कुमारपालचरित]