________________
१७६
कुमारपालचरिते
एसा रमिहिइ एसा रमिज एसा वि संपइ रमेजा । एसा रमिज एसा रमउ रमेजा य एसा वि ।। १०० ।। होम्हाणं समओ होजा स-च्छन्द-गो जणो एस । ण हु होज जइ पओसो ता एस जणो कहं होजां ॥ १०१ ॥ होअर अङ्ग-त्थम्भो सेओ होजाइ होज रोमचो । होजा कम्पो होइ अ वेवणं ऐण्हिमभिसरणे ।। १०२ ।।
१००. हे वयस्ये संप्रति इदानीम् एषा रमिष्यते स्वेच्छया क्रीडां करिष्यति । एषा रमिष्यते । एषापि रमिष्यते । तथा एषा रमताम् ।. [ एषा रमताम् । ] एषापि रमतां च ॥
१०१. हे आलि अस्माकं समयः स्वेच्छया विचरंणावसरः अभवत् । अभूत् बभूव । जज्ञे । अतः एष जनो मल्लक्षणः स्वच्छन्दगः स्वेच्छाचारी भवति भवेत् भवतु भूयात् भविता भविष्यति । तथा हु निश्चितं यदि प्रदोषो रजनीमुखं नाभविष्यत् वद एष जनः अस्मै लक्षणः कथम् अभविष्यत् । प्रदोषाभावे प्रियविरहवह्निना भस्मसात् समपत्स्यतेत्यर्थः ॥
१०२. हे सध्रीचि इदानीम् अभिसरणे प्रियसमीपगमने अङ्गस्तम्भः हर्षादिवशाद् यत्नेपि अङ्गाक्रिया भवति संपद्यते । स्वेदः श्रमादिना रोमजलस्रावो भवति । रोमाञ्चः प्रियदर्शनादे रोमहर्षः । कम्पः मा मां कश्चिद् अभिसरन्तीं द्राक्षीद् इति भयादिना गात्रस्पन्दो भवति । बैवर्ण्य सपम्यादिक्षेपादिना छायाविकारश्च भवति । इदानीम् अस्मा कम् अभिसरणं कुर्वतीनाम् अङ्गस्तम्भादि वर्तत इत्यर्थः ॥
१ C होजो. २ BC एम्हि ३ C यथा ४BC तथा ५ C मल्लक्षणः.