SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १७२ कुमारपालचरिते होहाम मुक्क-मेरा होहिम गोवाल-गुजरी-गाया । · होस्सामु मित्त-मिलिआ होहामु तहेअ कय-नट्टा ॥ ९१॥ होहिमु रमिरा भमिरा होहिस्सा निव्वुआ य होहित्था । इअ मुणि-वडुआ जम्पन्ति गावि-समुहं वणे जन्ता ॥ ९२॥ गव्यानयनार्थम् अभिमुखं वने यान्तो गच्छन्तः मुनिबटुकास्तापसकुमारका इति एवं कथयन्ति। किं तद् इत्याह । “वायव्यं तु गवीरजः" इति वचनाद् वायव्यस्नानं सुरभिखुरोत्खातपवनोल्लासितपांशुत्रानं तेन स्नाताः शुचयो भविष्यामः संपत्स्यामहे । अनध्ययनाः विकालत्वाद् पठनगुणनरहिता भविष्यामः । कृतः । गेड्डीति देश्यः । शङ्खलाख्या वक्राग्रा यष्टिः तया आरामः क्रीडा येषां ते तथा भविष्यामः । विगतभयाः पठनगुणनायोग्यकाले रमणाद् उपाध्यायविमोपनोत्थदरवर्जिता भविष्यामः ॥ ९१. मुक्ता निर्जनत्वात् त्यक्ता मेरा मर्यादा यैस्ते तथा । निःशङ्का इत्यर्थः । भविष्यामः ॥ गोपालगूर्जरी भैरवरागप्रियां भाषाविशेष गायन्ति ते गोपालगूर्जरीगायका भविष्यामः । "कचग० [१.१७७] इति कलुकि क्वचिद् एकपदेपि संधौ दीर्घत्वे गाथा इति रूपम् । मित्रमिलिताः क्रीडावसरत्वात् सखियुक्ता भविष्यामः । तथैवेति निपातसमुदायः समुन्धये । कृतनाट्याः रचितनर्तनाश्च भविष्यामः । मिर्मिलित्वा नाट्यं करिष्याम इत्यर्थः ॥ ९२. रन्तारः नानाक्रीडनकैः क्रीडनशीला भविष्यामः । भ्रमितारः इतस्ततः पर्यटनशीला भविष्यामः । एवं च निवृताश्च सुखिताश्च भविष्यामः॥ होस्सामि । होहामि । होस्सामो । होहामो । होस्साम । होहाम । होस्सामु । होहामु । " मिमोमुमे स्सा हा न वा” । [१६७] पक्षे होहिमि । होहिमो । होहिम । होहिमु॥ १ B omits from गोपाल...भविष्यामः.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy