________________
कम्हा जम्हा तम्हा वि वण-निउजाउ तत्थ महमहिओ । काओ जाओ ताओ वि पक्खओ नीव-गन्धो तो ॥१॥... गायन्ति किणो मोरा कीस पिगी गाइ जम्बु-फल-मत्ता । कम्हा वयं जिआमो तत्थ पउत्थेहिँ इअ लविअं ॥२॥ इमिणा इमेण एएण एदिणा किण वि जेण तेण किर। सव्व-दिसाण मुहेणं महमहिओ मालई-गन्धो ॥३॥ १. अथ पञ्चचत्वारिंशता गाथाभिीष्मानन्तरभाविनी प्रावृषं वर्णयति । ततो ग्रीष्मानन्तरं कस्माद् यस्मात् तस्मादपि । सर्वस्माद् इत्यर्थः । वननिकुञ्जात् कस्माद् यस्मात् तस्मादपि पक्षात् पार्थात् समीपदेशात् तत्र प्रावृषि नीपगन्धः धाराकदम्बसौरभ्यं प्रसृतः उच्छलितः॥ कम्हा । जम्हा । तम्हा । "सेम्हा" [६६] । पक्षे काओ । जाओ । ताओ।। तो । “तदो डोः" [६७] इति ङसे? । पक्षे तम्हा ॥ ..
२. कस्माद् मयूरा गायन्ति केकायन्ते । कस्मात् जम्बुफलैर्मत्ता पुष्टा सती पिकी कोकिला गायति मधुरं कूजति । अथ यदि एतयोः शब्दितम् उल्लसति तदा कस्माद् वयं जीवामः । एवं सति न प्राणितुं समय इति भावः । इति तत्र प्रावृषि प्रोषितैः पान्थैर्लपितं परस्परम् उक्तम् ॥ किणो। कीस । “किमो डिणोडीसो'[६८]इति ङसेर्डिणोडीसौ । पक्षे कम्हा ॥
३. येन केनापि तेन लोकप्रसिद्धेन सर्वदिशां मुखेन । केन तेने