SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १२८ कुमारपालचरिते ...... : कुल्ल-जलाइं अइसीअलाइँ विमलाणि पेच्छ पवहन्ति । इअ भणिरा महिलाओ जल-केलि-छणे पयट्टाउ ॥४१॥ . हारावलि-मुत्ताउ वि जलाहयाओ जलम्मि निवडन्ता । अगणिअ जले विलुलिआ का वि मयच्छी हसन्तीआ॥४२॥ मउवीओ तणुवीआ पेच्छ जले संचरन्ति लीला। ..... . रम्माइ बहु-विहाए ठाणं अच्छर-सरिच्छाओ ॥ ४३ ॥ '' ४१. अतिशीतलानि विमलानि कुल्याजलानि प्रवहन्ति स्रोतो- . रीत्या गच्छन्तीति पश्य इति भणियः परस्परं भाषमाणा महिला . युवत्यः जलकैलिक्षणे प्रवृत्ताः । कान्तैः सहेति शेषः । जलाई । अइसीअलाइँ। विमलाणि। “जश्शस इंणयः सप्राग्दीर्घाः"[२६]॥ ४२. अधुना तदेव जलकेलिक्षणं षट्त्रिंशता गाथाभिः प्राह । जलैराहतास्ताडिताः अत एवं जले निपतन्तीः भ्रश्यन्तीः हारावलिमुक्ता 'अपि आस्तां वस्त्रादिकं मुक्ताकलापमुक्ता अपि अगणयित्वा अनाहत्य हसन्ती 'प्रियैः सह चस्करिपरा कापि मृगाक्षी जले विलुलिता बुडिता ।। महिलाओ पयट्टाउ । मुत्ताउ जलाहयाओ । “स्त्रियाम् उदोतौ वा' [२७] इति जश्शसोः [ प्रत्येकम् ] उदोतौ सप्राग्दी? । पक्षे भणिरा । निवडन्ता । ..४३-४५. त्रिभिर्विशेषकम् । अहिलोकवध्वाः पातालकन्यकायाः सुरवध्वा देवाङ्गनायाः तथा यक्षश्च पुण्यजनः किंनरश्च किंपुरुषस्तयोर्वध्वाः सकाशाद् रूपाधिकाः। ताभ्योपि प्रधाना इत्यर्थः । वध्वा इति जातिविवक्षया एकवचनम् । दयितास्तटस्थतरुणैः पार्श्वस्थयुवभिः इति पूर्वोक्तं भणिताः ॥ ४३. तदेवाह । मृद्ध्यः कोमलच्छवयः अप्सरःसदृक्षा देवाङ्गनातुल्यास्तन्व्यो नायिका रम्याया बहुविधाया लीलायाः १D प्रियेण.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy