________________
२२६
कुमारपालचरिते - . जलिअग्गिणो व्व जल-वाउणो वि विरहीण साहवो नासि । अह वा विहिम्मि वामे साहू वि न साहुणो हुन्ति ॥३५॥ कीला-गिरिणो साहउ कीला-तरुणो वि साहओ जाया । नीक-पवाहेहि जओ गिरी तरू वा जल-सलोणा ॥३६॥ उच्चिणिअ बहू तरुणो काउं गिरिणो व्व बहु-कुसुम-रासी । गिरिणो तरुणो अ तले कुसुमाभरणाइँ रइआई ॥३७॥ विरहाग्निदीपनात् तेभ्योप्युत्कृष्टा इत्यर्थः । अत्र तच्छब्दो ज्ञेयः ॥
३५. ज्वलितामय इव जलेन मिश्रा वायवो जलवायवस्तेपि विरहिणां पान्थानां ज्वलितामय इव साधवः उपकारका नासन् । अधिकतरं संतापमेव चरित्यर्थः । अथ वा युक्तमेवैतत् । विधौ वामे प्रतिकूले सति साधवोपि हिता अपि न सांधवो हिता भवन्ति ॥
मयणग्गउ विरहग्गओ । वायओ वायउ । “ पुंसि जसो डउ डओ वा" [२० ] इति अउ अओ इत्यादेशौ । पक्षे अग्गियो । वाउणो ॥
३६. नीकानां कुल्यानां प्रवाहैः कृत्वा क्रीडागिरयः साधवः प्रधानाः क्रीडातरवोपि साधवो जाताः । यतो गिरयस्तरवो वा जलेन सलवणा लावण्योपेता भवन्ति ॥ 'साहवो। “वोतो डवो"[२१]इति जसो डित् अवो । पक्षे साहू । साहुणो। साहउ । साहओ ॥
३७. उच्चित्य बहूंस्तरून् ततः कृत्वा गिरीनिव अत्युच्चत्वात् पर्वतानिव बहुकुसुमराशीन् गिरेस्तरोश्च तले अधः कुसुमाभरणानि जलकेलिक्षणोचितानि कर्णपूरादीनि रचितानि । दंपतिभिरिति शेषः ॥
कीला-गिरिणो । कीला-तरुणो ।तरुणो। गिरिणो । “जश्शसोर्णो वा"[२२] इति णो । पक्षे गिरी । तरू । बहू । रासी ।
...
BCD दंपतीभि.