________________
१२४
कुमारपालचरिते वेएणं सम-विसमे पूरन्तेहिं जलेहि कूवेहि । .. खन्धेसु तुसार-मिसा तरूहि पुलउ ब्व पायडिओ ॥२९॥ . दटुं तं छणमच्छीहिँ जणो उजाण-भूमिसु अमन्तो । तत्थ गिरीसु तरूओ गओ गिरीओ तरूसुं च ॥ ३०॥ पक्खेसु चउसु दारेसु चऊसु चऊहि सालभञ्जीहि । . चउहि करएहि तुल्लं पलोट्टिअं वारि धारीए ॥ ३१॥ कन्नेसुन्तो । मुहासुन्तो । हत्थेहिन्तो । चरणाहिन्तो । वच्छाहि । उअरेहि । . " भ्यसि वा" [१३] । भ्यसादेशे अतो दीर्घो वा ॥
२९. कूपेभ्य इति उपात्तविषये अपादाने पञ्चमी । ततः कूपाद् निःसृत्येत्यर्थः । वेगेन दक्षपुरुषप्रेरितकूपान्तर्वर्तियन्त्रवत्त्वाजवेन समविषमान प्राञ्जलनिम्नोन्नतप्रदेशान् पूरयद्भिर्जलैः कृत्वा तरुभिः कर्तृभिः । मूलात् शाखावधयः प्रकाण्डाः । तेषां मस्तकानि स्कन्धास्तेषु पुलक इव वेगविनिःसृतजलप्रवाहोच्छलिततद्विन्दुसंदोहविष्वग्व्याप्तत्वेन रोमाश्व इव प्रकटितः व्यक्तीकृतः ॥
वेऐणं । सम-विसमे । “टाणशस्येत्” [१४] इति एकारः ॥
कन्नेसुन्तो इत्यादि । पूरन्तेहिं । जहि । कूवेहि । खन्धेसु । "भिस्भ्यस्सुपि" [ १५ ] एषु अत ए॥
३०. तत्र सर्वतपुष्पजातियुक्तत्वात् प्रसिद्धासु उद्यानभूमिषु अमान संकीर्णत्वेन अवस्थातुम् अपारयन् त आश्चर्यकारिक्षणं मकरमुखादिजलेयन्त्रनिर्गममहोत्सवम् अक्षिभिर्द्रष्टुं जनस्तरुभ्यो गिरिषु गिरिभ्यस्तरुषु च गतः । निरन्तरायम् अवलोकयितुम् उच्चोच्चतरप्रदेशेष्वारूढ इत्यर्थः॥
तरूहिं । अच्छीहिं । गिरीसु । तरूओ। गिरीओ । तरूसुं । " इदुतो दीर्घः " [१६] ॥ क्वचिन्न । भूमिसु ॥ . ३१. पक्षेषु स्तम्भादिपार्श्वेषु चतुर्पु द्वारेषु पार्श्वपृष्ठाग्रगृहमुखेषु .
१D धाराए. २ D वेगेणं. ३ D तं तत्राश्चर्य. ४ D °यन्त्रजल',